ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्। रामस्य पूरयामासुः पुरीं जानपदा जनाः
जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निःस्वनः। पर्वसूदीर्णवेगस्य सागरस्येव निःस्वनः
ततस्तदिन्द्रक्षयसंनिभं पुरं दिदृक्षुभिर्जानपदैरुपाहितैः। समन्ततः सस्वनमाकुलं बभौ समुद्रयादोभिरिवार्णवोदकम्
thumb|सप्तमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तमः सर्गः ॥२-
ज्ञातिदासी यतो जाता कैकेय्या तु सहोषिता। प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया
सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्। अयोध्यां मन्थरा तस्मात् प्रासादादन्ववैक्षत
पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम्। सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्युताम्
माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम्। शुक्लदेवगृहद्वारां सर्ववादित्रनादिताम्
सम्प्रहृष्टजनाकीर्णां ब्रह्मघोषनिनादिताम्। प्रहृष्टवरहस्त्यश्वां सम्प्रणर्दितगोवृषाम्
हृष्टप्रमुदितैः पौरैरुच्छ्रितध्वजमालिनीम्। अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता
उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती। राममाता धनं किं नु जनेभ्यः सम्प्रयच्छति
अतिमात्रं प्रहर्षः किं जनस्यास्य च शंस मे। कारयिष्यति किं वापि सम्प्रहृष्टो महीपतिः
विदीर्यमाणा हर्षेण धात्री तु परया मुदा। आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम्
श्वः पुष्येण जितक्रोधं यौवराज्येन चानघम्। राजा दशरथो राममभिषेक्ता हि राघवम्
धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षितः। कैलासशिखराकारात् प्रासादादवरोहत
सा दह्यमाना क्रोधेन मन्थरा पापदर्शिनी। शयानामेव कैकेयीमिदं वचनमब्रवीत्
उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते। उपप्लुतमघौघेन नात्मानमवबुध्यसे
अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे। चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे
एवमुक्ता तु कैकेयी रुष्टया परुषं वचः। कुब्जया पापदर्शिन्या विषादमगमत् परम्
कैकेयी त्वब्रवीत् कुब्जां कच्चित् क्षेमं न मन्थरे। विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्
मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्। उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा
सा विषण्णतरा भूत्वा कुब्जा तस्यां हितैषिणी। विषादयन्ती प्रोवाच भेदयन्ती च राघवम्
अक्षयं सुमहद् देवि प्रवृत्तं त्वद्विनाशनम्। रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति
सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता। दह्यमानानलेनेव त्वद्धितार्थमिहागता
तव दुःखेन कैकेयि मम दुःखं महद् भवेत्। त्वद्वृद्धौ मम वृद्धिश्च भवेदिह न संशयः
नराधिपकुले जाता महिषी त्वं महीपतेः। उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे
धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः। शुद्धभावेन जानीषे तेनैवमतिसंधिता
उपस्थितः प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम्। अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति
अपवाह्य तु दुष्टात्मा भरतं तव बन्धुषु। काल्ये स्थापयिता रामं राज्ये निहतकण्टके
शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया। आशीविष(=सर्प) इवाङ्गेन बाले परिधृतस्त्वया