ततो यथावद् रामेण स राज्ञो गुरुरर्चितः। अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः। सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः
हृष्टनारीनरयुतं रामवेश्म तदा बभौ। यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः
स राजभवनप्रख्यात् तस्माद् रामनिवेशनात्। निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः। बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः
जनवृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा। बभूव राजमार्गस्य सागरस्येव निःस्वनः
सिक्तसम्मृष्टरथ्या हि तथा च वनमालिनी। आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा
तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलो जनः। रामाभिषेकमाकांक्षन्नाकांक्षन्नुदयं रवेः
प्रजालंकारभूतं च जनस्यानन्दवर्धनम्। उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्
एवं तज्जनसम्बाधं राजमार्गं पुरोहितः। व्यूहन्निव जनौघं तं शनै राजकुलं ययौ
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य च। समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः। पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत्
तेन चैव तदा तुल्यं सहासीनाः सभासदः। आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्। विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव
तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्। व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः
thumb|षष्ठः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठः सर्गः ॥२-
गते पुरोहिते रामः स्नातो नियतमानसः। सह पत्न्या विशालाक्ष्या नारायणमुपागमत्
प्रगृह्य शिरसा पात्रीं हविषो विधिवत् ततः। महते दैवतायाज्यं जुहाव ज्वलितानले
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्। ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः। अलंकारविधिं सम्यक् कारयामास वेश्मनः
तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम्। पूर्वां संध्यामुपासीनो जजाप सुसमाहितः
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्। विमलक्षौमसंवीतो वाचयामास स द्विजान्
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तथा। अयोध्यां पूरयामास तूर्यघोषानुनादितः
कृतोपवासं तु तदा वैदेह्या सह राघवम्। अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्। प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम्
सिताभ्रशिखराभेषु देवतायतनेषु च। चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च
नानापण्यसमृद्धेषु वणिजामापणेषु च। कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च
सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च। ध्वजाः समुच्छ्रिताः साधु पताकाश्चाभवंस्तथा
नटनर्तकसङ्घानां गायकानां च गायताम्। मनःकर्णसुखा वाचः शुश्राव जनता ततः
रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः। रामाभिषेके सम्प्राप्ते चत्वरेषु गृहेषु च