संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने। पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन। श्रेयसे राज्यलाभाय वध्वा सह यतव्रत
तथेति च स राजानमुक्त्वा वेदविदां वरः। स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम्
उपवासयितुं वीरं मन्त्रविन्मन्त्रकोविदम्। ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः
तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमम्। मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात्
अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः। ततोऽवतारयामास परिगृह्य रथात् स्वयम्
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च। प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः
प्रसन्नस्ते पिता राम यत्त्वं राज्यमवाप्स्यसि। उपवासं भवानद्य करोतु सह सीतया
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः। पिता दशरथः प्रीत्या ययातिं नहुषो यथा
इत्युक्त्वा स तदा राममुपवासं यतव्रतः। मन्त्रवत् कारयामास वैदेह्या सहितं शुचिः
ततो यथावद् रामेण स राज्ञो गुरुरर्चितः। अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः। सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः
हृष्टनारीनरयुतं रामवेश्म तदा बभौ। यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः
स राजभवनप्रख्यात् तस्माद् रामनिवेशनात्। निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः। बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः
जनवृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा। बभूव राजमार्गस्य सागरस्येव निःस्वनः
सिक्तसम्मृष्टरथ्या हि तथा च वनमालिनी। आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा
तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलो जनः। रामाभिषेकमाकांक्षन्नाकांक्षन्नुदयं रवेः
प्रजालंकारभूतं च जनस्यानन्दवर्धनम्। उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्
एवं तज्जनसम्बाधं राजमार्गं पुरोहितः। व्यूहन्निव जनौघं तं शनै राजकुलं ययौ
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य च। समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः। पप्रच्छ स्वमतं तस्मै कृतमित्यभिवेदयत्
तेन चैव तदा तुल्यं सहासीनाः सभासदः। आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम्
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्। विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव
तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम्। व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः
thumb|षष्ठः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठः सर्गः ॥२-
गते पुरोहिते रामः स्नातो नियतमानसः। सह पत्न्या विशालाक्ष्या नारायणमुपागमत्
प्रगृह्य शिरसा पात्रीं हविषो विधिवत् ततः। महते दैवतायाज्यं जुहाव ज्वलितानले
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्। ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः। अलंकारविधिं सम्यक् कारयामास वेश्मनः