यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने। तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय
एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकांक्षितम्। हर्षबाष्पाकुलं वाक्यमिदं राममभाषत
वत्स राम चिरं जीव हतास्ते परिपन्थिनः। ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय
कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक। येन त्वया दशरथो गुणैराराधितः पिता
अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे। येयमिक्ष्वाकुराजश्रीः पुत्र त्वां संश्रयिष्यति
इत्येवमुक्तो मात्रा तु रामो भ्रातरमब्रवीत्। प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव
लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्। द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता
सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान् राज्यफलानिच। जीवितं चापि राज्यं च त्वदर्थमभिकामये
इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च। अभ्यनुज्ञाप्य सीतां च ययौ स्वं च निवेशनम्
thumb|पञ्चमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चमः सर्गः ॥२-
संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने। पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन। श्रेयसे राज्यलाभाय वध्वा सह यतव्रत
तथेति च स राजानमुक्त्वा वेदविदां वरः। स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम्
उपवासयितुं वीरं मन्त्रविन्मन्त्रकोविदम्। ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः
तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमम्। मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात्
अभ्येत्य त्वरमाणोऽथ रथाभ्याशं मनीषिणः। ततोऽवतारयामास परिगृह्य रथात् स्वयम्
स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च। प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः
प्रसन्नस्ते पिता राम यत्त्वं राज्यमवाप्स्यसि। उपवासं भवानद्य करोतु सह सीतया
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः। पिता दशरथः प्रीत्या ययातिं नहुषो यथा
इत्युक्त्वा स तदा राममुपवासं यतव्रतः। मन्त्रवत् कारयामास वैदेह्या सहितं शुचिः
ततो यथावद् रामेण स राज्ञो गुरुरर्चितः। अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः। सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः
हृष्टनारीनरयुतं रामवेश्म तदा बभौ। यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः
स राजभवनप्रख्यात् तस्माद् रामनिवेशनात्। निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः। बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः
जनवृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा। बभूव राजमार्गस्य सागरस्येव निःस्वनः
सिक्तसम्मृष्टरथ्या हि तथा च वनमालिनी। आसीदयोध्या तदहः समुच्छ्रितगृहध्वजा
तदा ह्ययोध्यानिलयः सस्त्रीबालाकुलो जनः। रामाभिषेकमाकांक्षन्नाकांक्षन्नुदयं रवेः
प्रजालंकारभूतं च जनस्यानन्दवर्धनम्। उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम्
एवं तज्जनसम्बाधं राजमार्गं पुरोहितः। व्यूहन्निव जनौघं तं शनै राजकुलं ययौ