उपासांचक्रिरे सर्वे तं देवा वासवं यथा। तेषां मध्ये स राजर्षिर्मरुतामिव वासवः
प्रासादस्थो दशरथो ददर्शायान्तमात्मजम्। गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्। चन्द्रकान्ताननं राममतीव प्रियदर्शनम्
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्। घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः
न ततर्प समायान्तं पश्यमानो नराधिपः। अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात्
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्। स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः
आरुरोह नृपं द्रष्टुं सहसा तेन राघवः। स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके
नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः। तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्। तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम्
दिदेश राजा रुचिरं रामाय परमासनम्। तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः
स्वयैव प्रभया मेरुमुदये विमलो रविः। तेन विभ्राजिता तत्र सा सभापि व्यरोचत
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना। तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्
अलंकृतमिवात्मानमादर्शतलसंस्थितम्। स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः
उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः। ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः
उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः। त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः
तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि। कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति
गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्। भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः
कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च। परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा
अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय। कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून्
इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्। तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः
तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर। तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः
त्वरिताः शीघ्रमागत्य कौसल्यायै न्यवेदयन्। सा हिरण्यं च गाश्चैव रत्नानि विविधानि च
व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा। अथाभिवाद्य राजानं रथमारुह्य राघवः। ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः
ते चापि पौरा नृपतेर्वचस्त- च्छ्रुत्वा तदा लाभमिवेष्टमाशु। नरेन्द्रमामन्त्र्य गृहाणि गत्वा देवान् समानर्चुरभिप्रहृष्टाः
thumb|चतुर्थः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्थः सर्गः ॥२-
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः। मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्
श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः। रामो राजीवपत्राक्षो युवराज इति प्रभुः
अथान्तर्गृहमाविश्य राजा दशरथस्तदा। सूतमामन्त्रयामास रामं पुनरिहानय
द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः। श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्
प्रवेश्य चैनं त्वरितो रामो वचनमब्रवीत्। यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः