सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्। ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्। सर्वे च तालापचरा गणिकाश्च स्वलंकृताः
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः। देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्। दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः
महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्। एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च। कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ। ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्
रामः कृतात्मा भवता शीघ्रमानीयतामिति। स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्
रामं तत्रानयांचक्रे रथेन रथिनां वरम्। अथ तत्र सहासीनास्तदा दशरथं नृपम्
प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः। म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः
उपासांचक्रिरे सर्वे तं देवा वासवं यथा। तेषां मध्ये स राजर्षिर्मरुतामिव वासवः
प्रासादस्थो दशरथो ददर्शायान्तमात्मजम्। गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्। चन्द्रकान्ताननं राममतीव प्रियदर्शनम्
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्। घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः
न ततर्प समायान्तं पश्यमानो नराधिपः। अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात्
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्। स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः
आरुरोह नृपं द्रष्टुं सहसा तेन राघवः। स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके
नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः। तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्। तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम्
दिदेश राजा रुचिरं रामाय परमासनम्। तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः
स्वयैव प्रभया मेरुमुदये विमलो रविः। तेन विभ्राजिता तत्र सा सभापि व्यरोचत
विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना। तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्
अलंकृतमिवात्मानमादर्शतलसंस्थितम्। स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः
उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः। ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः
उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः। त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः
तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि। कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति
गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्। भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः
कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च। परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा
अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय। कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून्
इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्। तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः