वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्। अभिषेकाय रामस्य यत् कर्म सपरिच्छदम्
तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि। तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्। सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि
शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी। अहतानि च वासांसि रथं सर्वायुधान्यपि
चतुरङ्गबलं चैव गजं च शुभलक्षणम्। चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम्
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्। हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च
यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्। उपस्थापयत प्रातरग्न्यगारे महीपतेः
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च। चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः
प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्। द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्। घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्। ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्। सर्वे च तालापचरा गणिकाश्च स्वलंकृताः
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः। देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्। दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः
महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्। एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च। कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ। ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्
रामः कृतात्मा भवता शीघ्रमानीयतामिति। स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्
रामं तत्रानयांचक्रे रथेन रथिनां वरम्। अथ तत्र सहासीनास्तदा दशरथं नृपम्
प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः। म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः
उपासांचक्रिरे सर्वे तं देवा वासवं यथा। तेषां मध्ये स राजर्षिर्मरुतामिव वासवः
प्रासादस्थो दशरथो ददर्शायान्तमात्मजम्। गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्
दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्। चन्द्रकान्ताननं राममतीव प्रियदर्शनम्
रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्। घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः
न ततर्प समायान्तं पश्यमानो नराधिपः। अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात्
पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्। स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः
आरुरोह नृपं द्रष्टुं सहसा तेन राघवः। स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके
नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः। तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः
गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्। तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम्
दिदेश राजा रुचिरं रामाय परमासनम्। तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः