बलमारोग्यमायुश्च रामस्य विदितात्मनः। देवासुरमनुष्येषु सगन्धर्वोरगेषु च
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा। आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः। सर्वा देवान्नमस्यन्ति रामस्यार्थे मनस्विनः। तेषां तद् याचितं देव त्वत्प्रसादात्समृद्ध्यताम्
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्। पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्
तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम्। हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि
thumb|तृतीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीयः सर्गः ॥२-
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः। प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम। यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः। यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्। शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्। अभिषेकाय रामस्य यत् कर्म सपरिच्छदम्
तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि। तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्। सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि
शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी। अहतानि च वासांसि रथं सर्वायुधान्यपि
चतुरङ्गबलं चैव गजं च शुभलक्षणम्। चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम्
शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्। हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च
यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्। उपस्थापयत प्रातरग्न्यगारे महीपतेः
अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च। चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः
प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्। द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्
सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्। घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः
सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्। ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च
आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्। सर्वे च तालापचरा गणिकाश्च स्वलंकृताः
कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः। देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः
उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्। दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः
महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्। एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ
चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च। कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ। ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्
रामः कृतात्मा भवता शीघ्रमानीयतामिति। स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्
रामं तत्रानयांचक्रे रथेन रथिनां वरम्। अथ तत्र सहासीनास्तदा दशरथं नृपम्
प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः। म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः