तच्छ्रुत्वा घोरसङ्काशं कुलक्षयमुपस्थितम् । प्रकृतीस्तु समानीय काञ्चनं च पुरोधसम् ।। ७.१०८.
तेषां सर्वं यथावृत्तमब्रवीद्रघनन्दनः । आत्मनश्च विपर्यासं भविष्यं भ्रातृभिः सह ।। ७.१०८.
ततः पुत्रद्वयं वीरः सो ऽभ्यषिञ्चन्नराधिपः । सुबाहुर्मधुरां लेभे शत्रुघाती च वैदिशम् ।। ७.१०८.
द्विधा कृत्वा तु तां सेनां माधुरीं पुत्रयोर्द्वयोः । धनं च युक्तं कृत्वा वै स्थापयामास पार्थिवः ।। ७.१०८.
सुबाहुं मधुरायां च वैदेशे शत्रुघातिनम् । ययौ स्थाप्य तदा ऽयोध्यां रथेनैकेन राघवः ।। ७.१०८.
स ददर्श महात्मानं ज्वलन्तमिव पावकम् । सूक्ष्मक्षौमाम्बरधरं मुनिभिः सार्धमक्षयैः ।। ७.१०८.
सो ऽभिवाद्य ततो रामं प्राञ्जलिः प्रयतेन्द्रियः । उवाच वाक्यं धर्मज्ञं धर्ममेवानुचिन्तयन् ।। ७.१०८.
कृत्वाभिषेकं सुतयोर्द्वयो राघवनन्दन । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.
न चान्यदपि वक्तव्यमतो वीर न शासनम् । विलोक्यमानमिच्छामि मद्विधेन विशेषतः ।। ७.१०८.
तस्य तां बुद्धिमक्लीबां विज्ञाय रघुनन्दनः । बाढमित्येव शत्रुघ्नं रामो वाक्यमुवाच ह ।। ७.१०८.
तस्य वाक्यस्य वाक्यान्ते वानराः कामरूपिणः । ऋक्षराक्षससङ्घाश्च समापेतुरनेकशः ।। ७.१०८.
सुग्रीवं ते पुरस्कृत्य सर्व एव समागताः । तं रामं द्रष्टुमनसः स्वर्गायाभिमुखं स्थितम् ।। ७.१०८.
देवपुत्रा ऋषिसुता गन्धर्वाणां सुतास्तथा । रामक्षयं विदित्वा ते सर्व एव समागताः ।। ७.१०८.
ते राममभिवाद्योचुः सर्वे वानरराक्षसाः । तवानुगमने राजन्सम्प्राप्ताः कृतनिश्चयाः ।। ७.१०८.
यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषोत्तम । यमदण्डमिवोद्यम्य त्वया स्म विनिपातिताः ।। ७.१०८.
तैरेवमुक्तः काकुत्स्थो बाढमित्यब्रवीत् स्मयन् ।। ७.१०८.
एतस्मिन्नन्तरे रामं सुग्रीवो ऽपि महाबलः । प्रणम्य विधिवद्वीरं विज्ञापयितुमुद्यतः ।। ७.१०८.
अभिषिच्याङ्गदं वीरमागतो ऽस्मि नरेश्वर । तवानुगमने राजन्विद्धि मां कृतनिश्चयम् ।। ७.१०८.
तस्य तद्वचनं श्रुत्वा रामो रमयतां वरः । वानरेन्द्रमथोवाचं मैत्रं तस्यानुचिन्तयन् ।। ७.१०८.
सखे शृणुष्व सुग्रीव न त्वया ऽहं विनाकृतः । गच्छेयं देवलोकं वा परमं वा पदं महत् ।। ७.१०८.
बिभीषणमथोवाच राक्षसेन्द्रं महायशाः । यावत्प्रजा धरिष्यन्ति तावत्त्वं वै बिभीषण । राक्षसेन्द्र महावीर्य लङ्कास्थस्त्वं धरिष्यसि ।। ७.१०८.
यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी । यावच्च मत्कथा लोके तावद्राज्यं तवास्त्विह ।। ७.१०८.
शासितस्त्वं सखित्वेन कार्यं ते मम शासनम् । प्रजाः संरक्ष धर्मेण नोत्तरं वक्तुमर्हसि ।। ७.१०८.
किञ्चान्यद्वक्तुमिच्छामि राक्षसेन्द्र महामते ।। ७.१०८.
आराधय जगन्नाथमिक्ष्वाकुकुलदैवतम् । आराधनीयमनिशं सर्वैर्दैवैः सवासवैः ।। ७.१०८.
तथेति प्रतिजग्राह रामवाक्यं विभीषणः । राजा राक्षसमुख्यानां राघवाज्ञामनुस्मरन् ।। ७.१०८.
तमेवमुक्त्वा काकुत्स्थो हनूमन्तमथाब्रवीत् । जीविते कृतबुद्धिस्त्वं मा प्रतिज्ञां विलोपय ।। ७.१०८.
मत्कथाः प्रचरिष्यन्ति यावल्लोके हरीश्वर । तावद्रमस्व सुप्रीतो मद्वाक्यमनुपालयन् ।। ७.१०८.
एवमुक्तस्तु हनुमान्राघवेण महात्मना । वाक्यं विज्ञापयामास परं हर्षमवाप्य च ।। ७.१०८.
यावत्तव कथा लोके विचरिष्यति पावनी । तावत्स्थास्यामि मेदिन्यां तवाज्ञामनुपालयन् ।। ७.१०८.