प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः। बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः
धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः। क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः। प्रियवादी च भूतानां सत्यवादी च राघवः
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता। तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः। सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित्
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः। कल्याणाभिजनः साधुरदीनात्मा महामतिः
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः। यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते। संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा
पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति। पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च
निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्। शुश्रूषन्ते च वः शिष्याः कच्चिद् वर्मसु दंशिताः
इति वः पुरुषव्याघ्रः सदा रामोऽभिभाषते। व्यसनेषु मनुष्याणां भृशं भवति दुःखितः
उत्सवेषु च सर्वेषु पितेव परितुष्यति। सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मनाश्रितः। सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा। सुभ्रूरायतताम्राक्षः साक्षाद् विष्णुरिव स्वयम्
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः। प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः
शक्तस्त्रैलोक्यमप्येष भोक्तुं किं नु महीमिमाम्। नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन
हन्त्येष नियमाद् वध्यानवध्येषु न कुप्यति। युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति
दान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम्। गुणैर्विरोचते रामो दीप्तः सूर्य इवांशुभिः
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्। लोकपालोपमं नाथमकामयत मेदिनी
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः। दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः
बलमारोग्यमायुश्च रामस्य विदितात्मनः। देवासुरमनुष्येषु सगन्धर्वोरगेषु च
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा। आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः। सर्वा देवान्नमस्यन्ति रामस्यार्थे मनस्विनः। तेषां तद् याचितं देव त्वत्प्रसादात्समृद्ध्यताम्
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्। पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्
तं देवदेवोपममात्मजं ते सर्वस्य लोकस्य हिते निविष्टम्। हिताय नः क्षिप्रमुदारजुष्टं मुदाभिषेक्तुं वरद त्वमर्हसि
thumb|तृतीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीयः सर्गः ॥२-
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः। प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम। यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः। यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्। शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः