स मे वध्यः खलु भवेत् कथाद्वन्द्वं समीरितम् । ऋषेर्मम च सौमित्रे पश्येद्वा शृणुयाच्च यः ।। ७.१०३.
ततो निक्षिप्य काकुत्स्थो लक्ष्मणं द्वारि सङ्ग्रहम् । तमुवाच मुने वाक्यं कथयस्वेति राघवः ।। ७.१०३.
यत्ते मनीषितं वाक्यं येन वा ऽसि समाहितः । कथयस्वाविशङ्कस्त्वं ममापि हृदि वर्तते ।। ७.१०३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्युत्तरशततमः सर्गः
शृणु राजन्महासत्व यदर्थमहमागतः । पितामहेन देवेन प्रेषितो ऽस्मि महाबल ।। ७.१०४.
तवाहं पूर्वसद्भावे पुत्रः परपुरञ्जय । मायासम्भावितो वीर कालः सर्वसमाहरः ।। ७.१०४.
पितामहश्च भगवानाह लोकपतिः प्रभुः । समयस्ते कृतः सौम्य लोकान्सम्परिरक्षितुम् ।। ७.१०४.
सङ्क्षिप्य हि पुरा लोकान्मायया स्वयमेव हि । महार्णवे शयानो ऽप्सु मां त्वं पूर्वमजीजनः ।। ७.१०४.
भोगवन्तं ततो नागमनन्तमुदकेशयम् । मायया जनयित्वा त्वं द्वौ च सत्त्वौ महाबलौ ।। ७.१०४.
मधुं च कैटभं चैव ययोरस्थिचयैर्वृता । इयं पर्वतसम्बाधा मेदिनी चाभवन्मही ।। ७.१०४.
पद्मे दिव्ये ऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म मयि सर्वं निवेशितम् ।। ७.१०४.
सो ऽहं सन्न्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान् ।। ७.१०४.
ततस्त्वमपि दुर्धर्षात्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.१०४.
अदित्यां वीर्यवान्पुत्रो भ्रातऽणां वीर्यवर्धनः । समुत्पन्नेषु कृत्येषु तेषां साह्याय कल्पसे ।। ७.१०४.
स त्वं वित्रास्यमानासु प्रजासु जगतां वर । रावणस्य वधाकाङ्क्षी मानुषेषु मनो ऽदधाः ।। ७.१०४.
दश वर्षसहस्राणि दश वर्षशतानि च । कृत्वा वासस्य नियतिं स्वयमेवात्मना पुरा ।। ७.१०४.
स त्वं मनोमयः पुत्रः पूर्णायुर्मानुषेष्विह । कालो ऽयं ते नरश्रेष्ठ समीपमुपवर्तितुम् ।। ७.१०४.
यदि भूयो महाराज प्रजा इच्छस्युपासितुम् । वस वा वीर भद्रं त एवमाह पितामहः ।। ७.१०४.
अथ वा विजिगीषा ते सुरलोकाय राघव । सनाथा विष्णुना देवा भवन्तु विगतज्वराः ।। ७.१०४.
श्रुत्वा पितामहेनोक्तं वाक्यं कालसमीरितम् । राघवः प्रहसन्वाक्यं सर्वसंहारमब्रवीत् ।। ७.१०४.
श्रुत्वा मे देवदेवस्य वाक्यं परममद्भुतम् । प्रीतिर्हि महती जाता तवागमनसम्भवा ।। ७.१०४.
त्रयाणामपि लोकानां कार्यार्थं मम सम्भवः । भद्रं ते ऽस्तु गमिष्यामि यत एवाहमागतः ।। ७.१०४.
हद्गतो ह्यसि सम्प्राप्तो न मे तत्र विचारणा । मया हि सर्वकृत्येषु देवानां वशवर्तिनाम् । स्थातव्यं सर्वसंहार यथा ह्याह पितामहः ।। ७.१०४.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुरधिकशततमः सर्गः
तथा तयोः संवदतोर्दुर्वासा भगवानृषिः । रामस्य दर्शनाकाङ्क्षी राजद्वारमुपागमत् ।। ७.१०५.
सो ऽभिगम्य तु सौमित्रिमुवाच ऋषिसत्तमः । रामं दर्शय मे शीघ्रं पुरा मे ऽर्थो ऽतिवर्तते ।। ७.१०५.
मुनेस्तु भाषितं श्रुत्वा लक्ष्मणः परवीरहा । अभिवाद्य महात्मानं वाक्यमेतदुवाच ह ।। ७.१०५.
किं कार्यं ब्रूहि भगवन्को वा ऽर्थः किं करोम्यहम् । व्यग्रो हि राघवो ब्रह्मन्मुहूर्तं प्रतिपाल्यताम् ।। ७.१०५.
तच्छ्रुत्वा ऋषिशार्दूलः क्रोधेन कलुषीकृतः । उवाच लक्ष्मणं वाक्यं निर्दहन्निव चक्षुषा ।। ७.१०५.
अस्मिन्क्षणे मां सौमित्रे रामाय प्रतिवेदय । अस्मिन्क्षणे मां सौमित्रे न निवेदयसे यदि ।। ७.१०५.