रामस्य भाषितं श्रुत्वा महर्षिः कार्यविस्तरम् । वक्तुमद्भुतसङ्काशं राघवायोपचक्रमे ।। ७.१००.
मातुलस्ते महाबाहो वाक्यमाह नरर्षभः । युधाजित्प्रीतिसंयुक्तं श्रूयतां यदि रोचते ।। ७.१००.
अयं गन्धर्वविषयः फलमूलोपशोभितः । सिन्धोरुभयतः पार्श्वे देशः परमशोभनः ।। ७.१००.
तं च रक्षन्ति गन्धर्वाः सायुधा युद्धकोविदाः । शैलूषस्य सुता वीर त्रिकोट्यो वै महाबलाः ।। ७.१००.
तान्विनिर्जित्य काकुत्स्थ गन्धर्वनगरं शुभम् । निवेशय महाबोहो स्वे पुरे सुसमाहिते ।। ७.१००.
अन्यस्य न गतिस्तत्र देशः परमशोभनः । रोचतां ते महाबाहो नाहं त्वामहितं वदे ।। ७.१००.
तच्छ्रुत्वा राघवः प्रीतो महर्षेर्मातुलस्य च । उवाच बाढमित्येव भरतं चान्ववैक्षत ।। ७.१००.
सो ऽब्रवीद्राघवः प्रीतः साञ्जलिप्रग्रहो द्विजम् । इमौ कुमारौ तं देशं ब्रह्मर्षे विचरिष्यतः ।। ७.१००.
भरतस्यात्मजौ वीरौ तक्षः पुष्कल एव च । मातुलेन सुगुप्तौ तु धर्मेण सुसमाहितौ ।। ७.१००.
भरतं चाग्रतः कृत्वा कुमारौ सबलानुगौ । निहत्य गन्धर्वसुतान्द्वे पुरे विभजिष्यतः ।। ७.१००.
निवेश्य ते पुरवरे आत्मजौ सन्निवेश्य च । आगमिष्यति मे भूयः सकाशमतिधार्मिकः ।। ७.१००.
ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानुगम् । आज्ञापयामास तदा कुमारौ चाभ्यषेचयत् ।। ७.१००.
नक्षत्रेण च सौम्येन पुरस्कृत्याङ्गिरस्सुतम् । भरतः सह सैन्येन कुमाराभ्यां विनिर्ययौ ।। ७.१००.
सा सेना शक्रयुक्तेव नगरान्निर्ययावथ । राघवानुगता दूरं दुराधर्षा सुरैरपि ।। ७.१००.
मांसादानि च सत्त्वानि रक्षांसि सुमहान्ति च । अनुजग्मुर्हि भरतं रुधिरस्य पिपासया ।। ७.१००.
भूतग्रामाश्च बहवो मांसभक्षाः सुदारुणाः । गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः ।। ७.१००.
सिंहव्याघ्रवराहाणां खेचराणां च पक्षिणाम् । बहूनि वै सहस्राणि सेनाया ययुरग्रतः ।। ७.१००.
अध्यर्धमासमुषिता पथि सेना निरामया । हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ।। ७.१००.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे शततमः सर्गः
श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । युधाजिद्गार्ग्यसहितं परां प्रीतिमुपागमत् ।। ७.१०१.
स निर्ययौ जनौघेन महता केकयाधिपः । त्वरमाणो ऽभिचक्राम गन्धर्वान्कामरूपिणः ।। ७.१०१.
भरतश्च युधाजिच्च समेतौ लघुविक्रमैः । गन्धर्वनगरं प्राप्तौ सबलौ सपदानुगौ ।। ७.१०१.
श्रुत्वा तु भरतं प्राप्तं गन्धर्वास्ते समागताः । योद्धुकामा महावीर्या व्यनदन् वै समन्ततः ।। ७.१०१.
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।। ७.१०१.
खड्गशक्तिधनुर्ग्राहा नद्यः शोणितसंस्रवाः । नृकलेवरवाहिन्यः प्रवृत्ताः सर्वतोदिशम् ।। ७.१०१.
ततो रामानुजः क्रुद्धः कालस्यास्त्रं सुदारुणम् । संवर्तं नाम भरतो गन्धर्वेष्वभ्यचोदयत् ।। ७.१०१.
ते बद्धाः कालपाशेन संवर्तेन विदारिताः । क्षणेनाभिहतास्तेन तिस्रः कोट्यो महात्मनाम् ।। ७.१०१.
तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः । निमेषान्तरमात्रेण तादृशानां महात्मनाम् ।। ७.१०१.
हतेषु तेषु सर्वेषु भरतः केकयीसुतः । निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।। ७.१०१.
तक्षं तक्षशिलायां तु पुष्कलं पुष्कलावते । [http://puranastudy.freeoda.com/pur_index18/pushkal.htm तक्ष-पुष्कलोपरि टिप्पणी] गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।। ७.१०१.