एवं विनिश्चयं कृत्वा सम्प्रगृह्य कुशीलवौ । तं जनौघं विसृज्याथ पर्णशालामुपागमत् । तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ।। ७.९८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टनवतितमः सर्गः
रजन्यां तु प्रभातायां समानीय महामुनीन् । गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ।। ७.९९.
ततः समुपविष्टेषु ब्रह्मर्षिषु महात्मसु । भविष्यदुत्तरं काव्यं जगतुस्तौ कुशीलवौ ।। ७.९९.
प्रविष्टायां तु सीतायां भूतलं सत्यसम्पदा । तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ।। ७.९९.
अपश्यमानो वैदेहीं मेने शून्यमिदं जगत् । शोकेन परमायस्तो न शान्तिं मनसा ऽगमत् ।। ७.९९.
विसृज्य पार्थिवान्सर्वानृक्षवानरराक्षसान् । जनौघं विप्रमुख्यानां वित्तपूर्वं विसृज्य च ।। ७.९९.
एवं समाप्य यज्ञं तु विधिवत्स तु राघवः । ततो विसृज्य तान्सर्वान्रामो राजीवलोचनः ।। ७.९९.
हृदि कृत्वा तदा सीतामयोध्यां प्रविवेश ह । इष्टयज्ञो नरपतिः पुत्रद्वयसमन्वितः ।। ७.९९.
न सीतायाः परां भार्यां वव्रे स रघुनन्दनः । यज्ञे यज्ञे च पत्न्यर्थं जानकी काञ्चनी भवत् ।। ७.९९.
दशवर्षसहस्राणि वाजिमेघानथाकरोत् । वाजपेयान्दशगुणांस्तथा बहुसुवर्णकान् ।। ७.९९.
अग्निष्टोमातिरात्राभ्यां गोसवैश्च महाधनैः । ईजे क्रतुभिरन्यैश्च स श्रीमानाप्तदक्षिणैः ।। ७.९९.
एवं स कालः सुमहान्राज्यस्थस्य महात्मनः । धर्मे प्रयतमानस्य व्यतीयाद्राघवस्य तु ।। ७.९९.
अनुरञ्जन्ति राजानमहन्यहनि राघवम् । ऋक्षवानररक्षांसि स्थिता रामस्य शासने ।। ७.९९.
काले वर्षति पर्जन्यः सुभिक्षं विमला दिशः । हृष्टपुष्टजनाकीर्णं पुरं जनपदास्तथा ।। ७.९९.
नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा । नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ।। ७.९९.
अथ दीर्घस्य कालस्य राममाता यशस्विनी । पुत्रपौत्रैः परिवृता कालधर्ममुपागमत् ।। ७.९९.
अन्वियाय सुमित्रा च कैकेयी च यशस्विनी । धर्मं कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ।। ७.९९.
सर्वाः प्रमुदिताः स्वर्गे राज्ञा दशरथेन च । समागता महाभागाः सर्वधर्मं च लेभिरे ।। ७.९९.
तासां रामो महादानं काले काले प्रयच्छति । मातऽणामविशेषेण ब्राह्मणेषु तपस्विषु ।। ७.९९.
पित्र्याणि ब्रह्मरत्नानि यज्ञान्परमदुस्तरान् । चकार रामो धर्मात्मा पितऽन्देवान्विवर्धयन् ।। ७.९९.
एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् । यज्ञैर्बहुविधं धर्मं वर्धयानस्य सर्वदा ।। ७.९९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनशततमः सर्गः
कस्यचित्त्वथ कालस्य युधाजित्केकयो नृपः । स्वगुरुं प्रेषयामास राघवाय महात्मने । गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्षिममितप्रभम् ।। ७.१००.
दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ।। ७.१००.
कम्बलानि च रत्नानि चित्रवस्त्रमथोत्तमम् । रामाय प्रददौ राजा शुभान्याभरणानि च ।। ७.१००.
श्रुत्वा तु राघवो धीमान्महर्षिं गार्ग्यमागतम् । मातुलस्याश्वपतिनः प्रहितं तन्महाधनम् ।। ७.१००.
प्रत्युद्गम्य च काकुत्स्थः क्रोशमात्रं सहानुजः । गार्ग्यं सम्पूजयामास यथा शक्रो बृहस्पतिम् ।। ७.१००.
तथा सम्पूज्य तमृषिं तद्धनं प्रतिगृह्य च । पृष्ट्वा प्रतिपदं सर्वं कुशलं मातुलस्य च । उपविष्टं महाभागं रामः प्रष्टुं प्रचक्रमे ।। ७.१००.
किमाह मातुलो वाक्यं यदर्थं भगवानिह । प्राप्तो वाक्यविदां श्रेष्ठः साक्षादिव बृहस्पतिः ।। ७.१००.