सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते। संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्
अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः। पुरन्दरसमो वीर्ये रामः परपुरंजयः
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्। यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुङ्गवम्
अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः। त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्
अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम्। गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै
यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्। भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्
यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्। अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम्। वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः
स्निग्धोऽनुनादः संजज्ञे ततो हर्षसमीरितः। जनौघोद्घुष्टसंनादो मेदिनीं कम्पयन्निव
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः। ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह
समेत्य ते मन्त्रयितुं समतागतबुद्धयः। ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव। स रामं युवराजानमभिषिञ्चस्व पार्थिवम्
इच्छामो हि महाबाहुं रघुवीरं महाबलम्। गजेन महता यान्तं रामं छत्रावृताननम्
इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्। अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्
श्रुत्वैतद् वचनं यन्मे राघवं पतिमिच्छथ। राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः
कथं नु मयि धर्मेण पृथिवीमनुशासति। भवन्तो द्रष्टुमिच्छन्ति युवराजं महाबलम्
ते तमूचुर्महात्मानः पौरजानपदैः सह। बहवो नृप कल्याणगुणाः सन्ति सुतस्य ते
गुणान् गुणवतो देव देवकल्पस्य धीमतः। प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान्शृणु
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः। इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते
रामः सत्पुरुषो लोके सत्यः सत्यपरायणः। साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः। बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः
धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः। क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः। प्रियवादी च भूतानां सत्यवादी च राघवः
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता। तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः। सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित्
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः। कल्याणाभिजनः साधुरदीनात्मा महामतिः
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः। यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते। संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा
पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति। पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च
निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्। शुश्रूषन्ते च वः शिष्याः कच्चिद् वर्मसु दंशिताः