दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः । पिबन्त इव चक्षुर्भ्यां राजानं गायकौ च तौ ।। ७.९४.
ऊचुः परस्परं चेदं सर्व एव समन्ततः । उभौ रामस्य सदृशौ बिम्बाद्बिम्बमिवोत्थितौ ।। ७.९४.
जटिलौ यदि न स्यातां न वल्कलधरौ यदि । विशेषं नाधिगच्छामो गायतो राघवस्य च ।। ७.९४.
तेषां संवदतामेवं श्रोतऽणां हर्षवर्धनम् । गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारकौ ।। ७.९४.
ततः प्रवृत्तं मधुरं गान्धर्वमतिमानुषम् । न च तृप्तिं ययुः सर्वे श्रोतारो गानसम्पदा ।। ७.९४.
प्रवृत्तमादितः पूर्वसर्गं नारददर्शितम् । ततः प्रभृति सर्गांश्च यावद्विंशत्यगायताम् ।। ७.९४.
ततो ऽपराह्णसमये राघवः समभाषत । श्रुत्वा विंशतिसर्गांस्तान्भ्रातरं भ्रातृवत्सलः ।। ७.९४.
अष्टादशसहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्क्षितम् । ददौ शीघ्रं स काकुत्स्थो बालयोर्वै पृथक्पृथक् ।। ७.९४.
दीयमानं सुवर्णं तु नागृह्णीतां कुशीलवौ । ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ ।। ७.९४.
वन्येन फलमूलेन निरतौ वनवासिनौ । सुवर्णेन हिरण्येन किं करिष्यावहे वने ।। ७.९४.
तथा तयोः प्रब्रुवतोः कौतूहलसमन्विताः । श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः ।। ७.९४.
तस्य चैवागमं रामः काव्यस्य श्रोतुमुत्सुकः । पप्रच्छ तौ महातेजास्तावुभौ मुनिदारकौ ।। ७.९४.
किम्प्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः । कर्ता काव्यस्य महतः क्व चासौ मुनिपुङ्गवः ।। ७.९४.
पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ।। ७.९४.
वाल्मीकिर्भगवान्कर्ता सम्प्राप्तो यज्ञसंविधम् । येनेदं चरितं तुभ्यमशेषं सम्प्रदर्शितम् ।। ७.९४.
सन्निबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना ।। ७.९४.
आदिप्रभृति वै राजन्पञ्चसर्गशतानि च । काण्डानि षट् कृतानीह सोत्तराणि महात्मना । कृतानि गुरुणास्माकमृषिणा चरितं तव ।। ७.९४.
प्रतिष्ठा ऽ ऽजीवितं यावत्तावत्सर्वस्य वर्तते ।। ७.९४.
सोत्तराणि महात्मना । यदि बुद्धिः कृता राजञ्छ्रवणाय महारथ । कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ।। ७.९४.
बाढमित्यब्रवीद्रामस्तौ चानुज्ञाप्य राघवम् । प्रहृष्टौ जग्मतुः स्थानं यत्रास्ते मुनिपुङ्गवः ।। ७.९४.
रामो ऽपि मुनिभिः सार्धं पार्थिवैश्च महात्मभिः । श्रुत्वा तद्गीतिमाधुर्यं कर्मशालामुपागमत् ।। ७.९४.
शुश्राव तत्ताललयोपपन्नं सर्गान्वितं स स्वरशब्दयुक्तम् । तन्त्रीलयव्यञ्जनयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् ।। ७.९४.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुर्नवतितमः सर्गः
रामो बहून्यहान्येवं तद्गीतं परमं शुभम् । शुश्राव मुनिभिः सार्धं पार्थिवैः सह वानरैः ।। ७.९५.
तस्मिन्गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ । तस्याः परिषदो मध्ये रामो वचनमब्रवीत् । दूताञ्छुद्धसमाचारानाहूयात्ममनीषया ।। ७.९५.
मद्वचो ब्रूत गच्छध्वमितो भगवतो ऽन्तिकम् ।। ७.९५.
परिषदो मध्ये रामो वचनमब्रवीत् । यदि शुद्धसमाचारा यदि वा वीतकल्मषा । करोत्विहात्मनः शुद्धिमनुमान्य महामुनिम् ।। ७.९५.
छन्दं मुनेश्च विज्ञाय सीतायाश्च मनोगतम् । प्रत्ययं दातुकामायास्ततः शंसत मे लघु ।। ७.९५.
श्वः प्रभाते तु शपथं मैथिली जनकात्मजा । करोतु परिषन्मध्ये शोधनार्थं ममैव च ।। ७.९५.
श्रुत्वा तु ऱागवस्यैतद्वचः परममद्भुतम् । दूताः सम्प्रययुर्बाटं यत्रास्ते मुनिपुङ्गवः ।। ७.९५.