वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ।। ७.९३.
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ।। ७.९३.
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ।। ७.९३.
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। ७.९३.
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ।। ७.९३.
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। ७.९३.
रामस्य भवनद्वारि यत्र कर्म च कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ।। ७.९३.
इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। ७.९३.
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ।। ७.९३.
यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। ७.९३.
दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ।। ७.९३.
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना ।। ७.९३.
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। ७.९३.
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ।। ७.९३.
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः ।। ७.९३.
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ।। ७.९३.
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ।। ७.९३.
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ ।। ७.९३.
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ।। ७.९३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः
तौ रजन्यां प्रभातायां स्नातौ हुतहुताशनौ । यथोक्तमृषिणा पूर्वं सर्वं तत्रोपगायताम् ।। ७.९४.
तां स शुश्राव काकुत्स्थः पूर्वाचार्यविजिर्मिताम् । अपूर्वां पाठ्यजातिं च गेयेन समलङ्कृताम् ।। ७.९४.
प्रमाणैर्बहुभिर्बद्धां तन्त्रीलयसमन्विताम् । बालाभ्यां राघवः श्रुत्वा कौतूहलपरो ऽभवत् ।। ७.९४.
अथ कर्मान्तरे राजा समाहूय महामुनीन् । पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ।। ७.९४.
पौराणिकाञ्छब्दविदो ये च वृद्धा द्विजातयः । स्वराणां लक्षणज्ञांश्च उत्सुकान्द्विजसत्तमान् ।। ७.९४.
लक्षणज्ञांश्च गान्धर्वान्नैगमांश्च विशेषतः । पादाक्षरसमासज्ञांश्छन्दःसु परिनिष्ठितान् ।। ७.९४.
कलामात्राविशेषज्ञाञ्ज्योतिषे च परं गतान् । क्रियाकल्पविदश्चैव तथा कार्यविदो जनान् ।। ७.९४.
भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः । हेतूपचारकुशलान् वचने चापि हैतुकान् ।। ७.९४.
छन्दोविदः पुराणज्ञान्वैदिकान्द्विजसत्तमान् । चित्रज्ञान्वृत्तसूत्रज्ञान्गीतनृत्यविशारदान् ।। ७.९४.
शास्त्रज्ञान्नीतिनिपुणान्वेदान्तार्थप्रबोधकान् । एतान्सर्वान्समानीय गातारौ समवेशयत् ।। ७.९४.