तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः । विविधानि च गौडानि खाण्डवानि तथैव च ।। ७.९२.
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् । तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। ७.९२.
न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः । तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। ७.९२.
ये च तत्र महात्मानो मुनयश्चिरजीविनः । नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। ७.९२.
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः । वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। ७.९२.
रजतानां सुवर्णानामश्मनामथ वाससाम् । अनिशं दीयमानानां राशिः समुपदृश्यते ।। ७.९२.
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। ७.९२.
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः । वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। ७.९२.
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः । संवत्सरमथो साग्रं वर्तते न च हीयते ।। ७.९२.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः
वर्तमाने तथाभूते यज्ञे च परमाद्भुते । सशिष्य आजगामाशु वाल्मीकिर्मुनिपुङ्गवः ।। ७.९३.
स दृष्ट्वा दिव्यसङ्काशं यज्ञमद्भुतदर्शनम् । एकान्ते ऋषिवाटानां चकार उटजाञ्छुभान् ।। ७.९३.
शकटांश्च बहून्पूर्णान्फलमूलैश्च शोभनान् । वाल्मीकिवाटे रुचिरे स्थापयन्नविदूरतः ।। ७.९३.
आसीत्सुपूजितो राज्ञा मुनिभिश्च महात्मभिः । वाल्मीकिः सुमहातेजा न्यवसत्परमात्मवान् ।। ७.९३.
स शिष्यावब्रवीद्धृष्टौ युवां गत्वा समाहितौ । कृत्स्नं रामायणं काव्यं गायेथां परया मुदा ।। ७.९३.
ऋषिवाटेषु पुण्येषु ब्राह्मणावसथेषु च । रथ्यासु राजमार्गेषु पार्थिवानां गृहेषु च ।। ७.९३.
रामस्य भवनद्वारि यत्र कर्म च कुर्वते । ऋत्विजामग्रतश्चैव तत्र गेयं विशेषतः ।। ७.९३.
इमानि च फलान्यत्र स्वादूनि विविधानि च । जातानि पर्वताग्रेषु चास्वाद्यास्वाद्य गायताम् ।। ७.९३.
न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि नगराद्बहिरास्यथः ।। ७.९३.
यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। ७.९३.
दिवसे विंशतिः सर्गा गेया मधुरया गिरा । प्रमाणैर्बहुभिस्तत्र यथोद्दिष्टा मया पुरा ।। ७.९३.
लोभश्चापि न कर्तव्यः स्वल्पो ऽपि धनकाङ्क्षया । किं धनेनाश्रमस्थानां फलमूलोपजीविना ।। ७.९३.
यदि पृच्छेत्स काकुत्स्थो युवां कस्येति दारकौ । आवां वाल्मीकिशिष्यौ स्वो ब्रूतमेवं नराधिपम् ।। ७.९३.
इमास्तन्त्रीः सुमधुराः स्थानं वा ऽपूर्वदर्शनम् । मूर्च्छयित्वा सुमधुरं गायतां विगतज्वरौ ।। ७.९३.
आदिप्रभृति गेयं स्यान्न चावज्ञाय पार्थिवम् । पिता हि सर्वभूतानां राजा भविति धर्मतः ।। ७.९३.
तद्युवां हृष्टमनसौ श्वः प्रभाते समास्थितौ । गायेथां मधुरं गेयं तन्त्रीलयसमन्वितम् ।। ७.९३.
इति सन्दिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ।। ७.९३.
सन्दिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिन्दमौ ।। ७.९३.
तामद्भुतां तौ हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ सममूषतुर्निशां यथा ऽश्विनौ भार्गवनीतिसंहिताम् ।। ७.९३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिनवतितमः सर्गः