तुष्टः पुष्टश्च सर्वो ऽसौ मानितश्च यथाविधि । प्रीतिं यास्यति धर्मज्ञ शीघ्रमामन्त्र्यतां जनः ।। ७.९१.
शतं वाहसहस्राणां तण्डुलानां वपुष्मताम् । अयुतं तिलमुद्गानां प्रयात्वग्रे महाबल ।। ७.९१.
चणकानां कुलित्थानां माषाणां लवणस्य च । अतो ऽनुरूपं स्नेहं च गन्धं सङ्क्षिप्तमेव च ।। ७.९१.
सुवर्णकोट्यो बहुला हिरण्यस्य शतोत्तराः । अग्रतो भरतः कृत्वा गच्छत्वग्रे समाधिना ।। ७.९१.
अन्तरा पण्यवीथ्यश्च सर्वे च नटनर्तकाः । सूदा नार्यश्च बहवो नित्यं यौवनशालिनः ।। ७.९१.
भरतेन तु सार्धं ते यान्तु सैन्यानि चाग्रतः । नैगमा बलवृद्धाश्च द्विजाश्च सुसमाहिताः ।। ७.९१.
कर्मान्तिकान्वर्धकिनः कोशाध्यक्षांश्च नैगमान् । मम मातऽस्तथा सर्वाः कुमारान्तःपुराणि च ।। ७.९१.
काञ्चनीं मम पत्नीं च दीक्षायां ज्ञांश्च कर्मणि । अग्रतो भरतः कृत्वा गच्छत्वग्रे महायशाः ।। ७.९१.
उपकार्या महार्हाश्च पार्थिवानां महौजसाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महाबलः ।। ७.९१.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकनवतितमः सर्गः
तत्सर्वमखिलेनाशु प्रस्थाप्य भरताग्रजः । हयं लक्षणसम्पन्नं कृष्णसारं मुमोच ह ।। ७.९२.
ऋत्विग्भिर्लक्ष्मणं सार्धमश्वतन्त्रे नियोज्य च । ततो ऽभ्यगच्छत्काकुत्स्थः सह सैन्येन नैमिशम् ।। ७.९२.
यज्ञवाटं महाबाहुर्दृष्ट्वा परममद्भुतम् । प्रबर्षमतुलं लेभे श्रीमानिति वचो ऽब्रवीत् ।। ७.९२.
नैमिषे वसतस्तस्य सर्व एव नराधिपाः । आनिन्युरुपहारांश्च तान्रामः प्रत्यपूजयत् ।। ७.९२.
उपकार्या महार्हाश्च पार्थिवानां महात्मनाम् । सानुगानां नरश्रेष्ठो व्यादिदेश महामतिः ।। ७.९२.
अन्नपानानि वस्त्राणि सानुगानां महात्मनाम् । भरतः सन्ददावाशु शत्रुघ्नसहितस्तदा ।। ७.९२.
वानराश्च महात्मानः सुग्रीवसहितास्तदा । विप्राणां प्रणताः सर्वे चक्रिरे परिवेषणम् ।। ७.९२.
बिभीषणश्च रक्षोभिर्बहुभिः स्रग्विभिर्वृतः । ऋषीणामुग्रतपसां पूजां चक्रे महात्मनाम् ।। ७.९२.
एवं सुविहितो यज्ञो हयमेधो ऽभ्यवर्तत । लक्ष्मणेनागुप्ता च हयचर्या प्रवर्तत । ईदृशं राजसिंहस्य यज्ञप्रवरमुत्तमम् ।। ७.९२.
नान्यः शब्दो ऽभवत्तत्र हयमेधे महात्मनः । छन्दतो देहि विस्रब्धो यावत्तुष्यन्ति याचकाः ।। ७.९२.
तावत्सर्वाणि दत्तानि क्रतुमध्ये महात्मनः । विविधानि च गौडानि खाण्डवानि तथैव च ।। ७.९२.
न निस्सृतं भतत्योष्ठाद्वचनं यावदर्थिनाम् । तावद्वानररक्षोभिर्दत्तमेवाभ्यदृश्यत ।। ७.९२.
न कश्चिन्मलिनस्तत्र दीनो वा ऽप्यथ कृर्शतः । तस्मिन्यज्ञवरे राज्ञो हृष्टपुष्टजनावृते ।। ७.९२.
ये च तत्र महात्मानो मुनयश्चिरजीविनः । नास्मरंस्तादृशं यज्ञं नाप्यासीत् स कदाचन ।। ७.९२.
यः कृत्यवान्सुवर्णेन सुवर्णं लभते स्म सः । वित्तार्थी लभते वित्तं रत्नार्थी रत्नमेव च ।। ७.९२.
रजतानां सुवर्णानामश्मनामथ वाससाम् । अनिशं दीयमानानां राशिः समुपदृश्यते ।। ७.९२.
न शक्रस्य धनेशस्य यमस्य वरुणस्य वा । ईदृशो दृष्टपूर्वो न एवमूचुस्तपोधनाः ।। ७.९२.
सर्वत्र वानरास्तस्थुः सर्वत्रैव च राक्षसाः । वासोधनान्नमर्थिभ्यः पूर्णहस्ता ददुर्भृशम् ।। ७.९२.
ईदृशो राजसिंहस्य यज्ञः सर्वगुणान्वितः । संवत्सरमथो साग्रं वर्तते न च हीयते ।। ७.९२.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विनवतितमः सर्गः