कर्दमेनैवमुक्तास्तु सर्व एव द्विजर्षभाः । रोचयन्ति स्म तं यज्ञं रुद्रस्याराधनं प्रति ।। ७.९०.
संवर्तस्य तु राजर्षेः शिष्यः पुरपुरञ्जयः । मरुत्त इति विख्यातस्तं यज्ञं समुपाहरत् ।। ७.९०.
ततो यज्ञो महानासीद्बुधाश्रमसमीपतः । रुद्रश्च परमं तोषमाजगाम महायशाः ।। ७.९०.
अथ यज्ञे समाप्ते तु प्रीतः परमया मुदा । उमापतिर्द्विजान्सर्वानुवाच इलसन्निधौ ।। ७.९०.
प्रीतो ऽस्मि हयमेधेन भक्त्या च द्विजसत्तमाः । अस्य बाह्लिपतेश्चैव किं करोमि प्रियं शुभम् ।। ७.९०.
तथा वदति देवेशे द्विजास्ते सुसमाहिताः । प्रसादयन्ति देवेशं यथा स्यात्पुरुषस्त्विला ।। ७.९०.
ततः प्रीतो महादेवः पुरुषत्वं ददौ पुनः । इलायै सुमहातेजा दत्त्वा चान्तरधीयत ।। ७.९०.
निवृत्ते हयमेधे च गतश्चादर्शनं हरः । यथागतं द्विजाः सर्वे ह्यगच्छन्दीर्घदर्शिनः ।। ७.९०.
राजा तु बाह्लिमुत्सृज्य मध्यदेशे ह्यनुत्तमम् । निवेशयामास पुरं प्रतिष्ठानं यशस्करम् ।। ७.९०.
शशबिन्दुश्च राजर्षिर्बाह्लिं पुरपुरञ्जयः । प्रतिष्ठाने इलो राजा प्रजापतिसुतो बली ।। ७.९०.
स काले प्राप्तवाँल्लोकमिलो ब्राह्ममनुत्तमम् । ऐलः पुरूरवा राजा प्रतिष्ठानमवाप्तवान् ।। ७.९०.
ईदृशो ह्यश्वमेधस्य प्रभावः पुरुषर्षभौ । स्त्रीभूतः पौरुषं लेभे यच्चान्यदपि दुर्लभम् ।। ७.९०.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे नवतितमः सर्गः
एतदाख्याय काकुत्स्थो भ्रातृभ्याममितप्रभः । लक्ष्मणं पुनरेवाह धर्मयुक्तमिदं वचः ।। ७.९१.
वसिष्ठं वामदेवं च जाबालिमथ कश्यपम् । द्विजांश्च सर्वप्रवरानश्वमेधपुरस्कृतान् ।। ७.९१.
एतान्सर्वान्समानीय मन्त्रयित्वा च लक्ष्मण । हयं लक्षणसम्पन्नं विमोक्ष्यामि समाधिना ।। ७.९१.
तद्वाक्यं राघवेणोक्तं श्रुत्वा त्वरितविक्रमः । द्विजान्सर्वान्समाहूय दर्शयामास राघवम् ।। ७.९१.
ते दृष्ट्वा देवसङ्काशं कृतपादाभिवन्दनम् । राघवं सुदुराधर्षमाशीर्भिः समपूजयन् ।। ७.९१.
प्राञ्जलिः स तदा भूत्वा राघवो द्विजसत्तमान् । आचचक्षे ऽश्वमेधस्य ह्यभिप्रायं महायशाः ।। ७.९१.
ते तु रामस्य तच्छ्रुत्वा नमस्कृत्वा वृषध्वजम् । अश्वमेधं द्विजाः सर्वे पूजयन्ति स्म सर्वशः ।। ७.९१.
स तेषां द्विजमुख्यानां वाक्यमद्भुतदर्शनम् । अश्वमेधाश्रितं श्रुत्वा भृशं प्रीतो ऽभवत्तदा ।। ७.९१.
विज्ञाय कर्म तत्तेषां रामो लक्ष्मणमब्रवीत् । प्रेषयस्व द्रुतं दूतान् सुग्रीवाय महात्मने ।। ७.९१.
यथा महद्भिर्हरिभिर्बहुभिश्च वनौकसाम् । सार्धमागच्छ भद्रं ते ह्यनुभोक्तुं महोत्सवम् ।। ७.९१.
बिभीषणश्च रक्षोभिः कामगैर्बहुभिर्वृतः । अश्वमेधं महायज्ञमायात्वतुलविक्रमः ।। ७.९१.
राजानश्च महाभागा ये मे प्रियचिकीर्षवः । सानुगाः क्षिप्रमायान्तु यज्ञं द्रष्टुमनुत्तमम् ।। ७.९१.
देशान्तरगता ये च द्विजा धर्मसमाहिताः । आमन्त्रयस्व तान्सर्वानश्वमेधाय लक्ष्मण ।। ७.९१.
ऋषयश्च महाबाहो आहूयन्तां तपोधनाः । देशान्तरगताः सर्वे सदाराश्च द्विजातयः । तथैव तालावचरास्तथैव नटनर्तकाः ।। ७.९१.
यज्ञवाटश्च सुमहान्गोमत्या नैमिशे वने । आज्ञाप्यतां महाबाहो तद्धि पुण्यमनुत्तमम् ।। ७.९१.
शान्तयश्च महाबाहो प्रवर्त्यन्तां समन्ततः ।। ७.९१.
शतशश्चापि धर्मज्ञाः क्रतुमुख्यमनुत्तमम् । अनुभूय महायज्ञं नैमिशे रघुनन्दन ।। ७.९१.