अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः । प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ।। ७.८९.
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये । ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ।। ७.८९.
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः । न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ।। ७.८९.
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् । प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ।। ७.८९.
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः । त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ।। ७.८९.
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः । फलमूलाशनो वीर निवसेह यथासुखम् ।। ७.८९.
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः । प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ।। ७.८९.
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः । वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ।। ७.८९.
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः । शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ।। ७.८९.
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् । प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ।। ७.८९.
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् । सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ।। ७.८९.
न सन्तापस्त्वया कार्यः कार्दमेय महाबल । संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। ७.८९.
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः । वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। ७.८९.
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा । मासं पुरुषभावेन धर्मबुद्धिं चकार सः ।। ७.८९.
ततः सा नवमे मासि इला सोमसुतात्सुतम् । जनयामास सुश्रोणी पुरूरवसमूर्जितम् ।। ७.८९.
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् । बुधस्य समवर्णभमिला पुत्रं महाबलम् ।। ७.८९.
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् । कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ।। ७.८९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोननवतितमः सर्गः
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ।। ७.९०.
इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ।। ७.९०.
तयोस्तद्वाक्यमाधुर्यं निशम्य परिपृच्छतोः । रामः पुनरुवाचेमां प्रजापतिसुते कथाम् ।। ७.९०.
पुरुषत्वं गते शूरे बुधः परमबुद्धिमान् । संवर्तं परमोदारमाजुहाव महायशाः ।। ७.९०.
च्यवनं भृगुपुत्रं च मुनिं चारिष्टनेमिनम् । प्रमोदनं मोदकरं ततो दुर्वाससं मुनिम् ।। ७.९०.
एतान्सर्वान्समानीय वाक्यज्ञस्तत्त्वदर्शनः । उवाच सर्वान्सुहृदो धैर्येण सुसमाहितान् ।। ७.९०.
अयं राजा महाबाहुः कर्दमस्य इलः सुतः । जानीतैनं यथाभूतं श्रेयो ह्यत्र विधीयताम् ।। ७.९०.
तेषां संवदतामेव तमाश्रममुपागमत् । कर्दमस्तु महातेजा द्विजैः सह महात्मभिः ।। ७.९०.
पुलस्त्यश्च क्रतुश्चैव वषट्कारस्तथैव च । ओङ्कारश्च महातेजास्तमाश्रममुपागमत् ।। ७.९०.
ते सर्वे हृष्टमनसः परस्परसमागमे । हितैषिणो बाल्हिपतेः पृथग्वाक्यान्यथाब्रुवन् ।। ७.९०.
कर्दमस्त्वब्रवीद्वाक्यं सुतार्थं परमं हितम् । द्विजाः शृणुत मद्वाक्यं यच्छ्रेयः पार्थिवस्य हि ।। ७.९०.
नान्यं पश्यामि भैषज्यमन्तरा वृषभध्वजम् । नाश्वमेधात्परो यज्ञः प्रियश्चैव महात्मनः । तस्माद्यजामहे सर्वे पार्थिवार्थे दुरासदम् ।। ७.९०.