ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ।। ७.८८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाशीतितमः सर्गः
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा । आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ।। ७.८९.
अथ रामः कथामेतां भूय एव महायशाः । कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। ७.८९.
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः । उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ।। ७.८९.
सोमस्याहं सुदयितः सुतः सुरुचिरानने । भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ।। ७.८९.
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते । इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ।। ७.८९.
अहं कामचरी सौम्य तवास्मि वशवर्तिनी । प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ।। ७.८९.
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः । स वै कामी सह तया रेमे चन्द्रमसः सुतः ।। ७.८९.
बुधस्य माधवो मासस्तामिलां रुचिराननाम् । गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ।। ७.८९.
अथ मासे तु सम्पूर्णे पूर्णेन्दुसदृशाननः । प्रजापतिसुतः श्रीमाञ्छयने प्रत्यबुध्यत ।। ७.८९.
सो ऽपश्यत्सोमजं तत्र तपन्तं सलिलाशये । ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ।। ७.८९.
भगवन्पर्वतं दुर्गं प्रविष्टो ऽस्मि सहानुगः । न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ।। ७.८९.
तच्छ्रुत्वा तस्य राजर्षेर्नष्टसञ्ज्ञस्य भाषितम् । प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ।। ७.८९.
अश्मवर्षेण महता भृत्यास्ते विनिपातिताः । त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ।। ७.८९.
समाश्वसिहि भद्रं ते निर्भयो विगतज्वरः । फलमूलाशनो वीर निवसेह यथासुखम् ।। ७.८९.
स राजा तेन वाक्येन प्रत्याश्वस्तो महामतिः । प्रत्युवाच ततो वाक्यं दीनो भृत्यक्षयाद् भृशम् ।। ७.८९.
त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विनाकृतः । वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ।। ७.८९.
सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः । शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ।। ७.८९.
न हि शक्ष्याम्यहं हित्वा भृत्यदारान्सुखान्वितान् । प्रतिवक्तुं महातेजः किञ्चिदप्यशुभं वचः ।। ७.८९.
तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् । सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ।। ७.८९.
न सन्तापस्त्वया कार्यः कार्दमेय महाबल । संवत्सरोषितस्येह कारयिष्यामि ते हितम् ।। ७.८९.
तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः । वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ।। ७.८९.
मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुदा । मासं पुरुषभावेन धर्मबुद्धिं चकार सः ।। ७.८९.
ततः सा नवमे मासि इला सोमसुतात्सुतम् । जनयामास सुश्रोणी पुरूरवसमूर्जितम् ।। ७.८९.
जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् । बुधस्य समवर्णभमिला पुत्रं महाबलम् ।। ७.८९.
बुधस्तु पुरुषीभूतं स वै संवत्सरान्तरम् । कथाभी रमयामास धर्मयुक्ताभिरात्मवान् ।। ७.८९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोननवतितमः सर्गः
तथोक्तवति रामे तु तस्य जन्म तदद्भुतम् । उवाच लक्ष्मणो भूयो भरतश्च महायशाः ।। ७.९०.
इला सा सोमपुत्रस्य संवत्सरमथोषिता । अकरोत्किं नरश्रेष्ठ तत्त्वं शंसितुमर्हसि ।। ७.९०.