तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् । कथयामास काकुत्स्थस्तस्य राज्ञो यथागतम् ।। ७.८८.
तमेव प्रथमं मासं स्त्रीभूता लोकसुन्दरी । ताभिः परिवृता स्त्रीभिर्ये च पूर्वपदानुगाः ।। ७.८८.
तत्काननं विगाह्वाशु विजह्रे लोकसुन्दरी । द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ।। ७.८८.
वाहनानि च सर्वाणि सा त्यक्त्वा वै समन्ततः । पर्वताभोगविवरे तस्मिन्रेमे इला तदा ।। ७.८८.
अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः । सरः सुरुचिरप्रख्यं नानापक्षिगणैर्युतम् ।। ७.८८.
ददर्श सा त्विला तस्मिन्बुधं सोमसुतं तदा । ज्वलन्तं स्वेन वपुषा पूर्णसोममिवोदितम् ।। ७.८८.
तपन्तं च तपस्तीव्रमम्भोमध्ये दुरासदम् । यशस्करं कामकरं कारुण्ये पर्यवस्थितम् ।। ७.८८.
सा तं जलाशयं सर्वं क्षोभयामास विस्मिता । सहगैः पूर्वपुरुषैः स्त्रीभूतै रघुनन्दन ।। ७.८८.
बुधस्तु तां समीक्ष्यैव कामबाणवशं गतः । नोपलेभे तदा ऽ ऽत्मानं सञ्चचाल तदा ऽ ऽम्भसि ।। ७.८८.
इलां निरीक्षमाणस्तु त्रैलोक्याभ्यधिकां शुभाम् । चिन्तां समभ्यतिक्रामत् का न्वियं देवताधिका ।। ७.८८.
न देवीषु न नागीषु नासुरीष्वप्सरःसु च । दृष्टपूर्वा मया काचिद्रूपेणानेन शोभिता ।। ७.८८.
सदृशीयं मम भवेद्यदि नान्यपरिग्रहः । इति बुद्धिं समास्थाय जलात्कूलमुपागमत् ।। ७.८८.
आश्रमं समुपागम्य ततस्ताः प्रमदोत्तमाः । शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ।। ७.८८.
स ताः पप्रच्छ धर्मात्मा कस्यैषा लोकसुन्दरी । किमर्थमागता चैव सर्वमाख्यात मा चिरम् ।। ७.८८.
शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् । श्रुत्वा स्त्रियश्च ताः सर्वा ऊचुर्मधुरया गिरा ।। ७.८८.
अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा । अपतिः काननान्तेषु सहास्माभिश्चरत्यसौ ।। ७.८८.
तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य च । विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ।। ७.८८.
सो ऽर्थं विदित्वा सकलं तस्य राज्ञो यथागतम् । सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुङ्गवः ।। ७.८८.
अत्र किम्पुरुषीर्भूत्वा शैलरोधसि वत्स्यथ । आवासस्तु गिरावस्मिञ्छीघ्रमेव विधीयताम् ।। ७.८८.
मूलपत्रफलैः सर्वा वर्तयिष्यथ नित्यदा । स्त्रियः किम्पुरुषान्नाम भर्तऽन्समुपलप्स्यथ ।। ७.८८.
ताः श्रुत्वा सोमपुत्रस्य वाचं किम्पुरुषीकृताः । उपासाञ्चक्रिरे शैलं वध्वस्ता बहुलास्तदा ।। ७.८८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टाशीतितमः सर्गः
श्रुत्वा किम्पुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा । आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ।। ७.८९.
अथ रामः कथामेतां भूय एव महायशाः । कथयामास धर्मात्मा प्रजापतिसुतस्य वै ।। ७.८९.
सर्वास्ता विद्रुता दृष्ट्वा किन्नरीर्ऋषिसत्तमः । उवाच रूपसम्पन्नां तां स्त्रियं प्रहसन्निव ।। ७.८९.
सोमस्याहं सुदयितः सुतः सुरुचिरानने । भजस्व मां वरारोहे भक्त्या स्निग्धेन चक्षुषा ।। ७.८९.
तस्य तद्वचनं श्रुत्वा शून्ये स्वजनवर्जिते । इला सुरुचिरप्रख्यं प्रत्युवाच महाग्रहम् ।। ७.८९.
अहं कामचरी सौम्य तवास्मि वशवर्तिनी । प्रशाधि मां सोमसुत यथेच्छसि तथा कुरु ।। ७.८९.
तस्यास्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः । स वै कामी सह तया रेमे चन्द्रमसः सुतः ।। ७.८९.
बुधस्य माधवो मासस्तामिलां रुचिराननाम् । गतो रमयतो ऽत्यर्थं क्षणवत्तस्य कामिनः ।। ७.८९.