इत्येवं विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः। शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः
तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः। निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्। संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम्
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः। लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च। प्राप्ते काले स धर्मात्मा भक्त्या त्वरितवान् नृपः
नानानगरवास्तव्यान् पृथग्जानपदानपि। समानिनाय मेदिन्यां प्रधानान् पृथिवीपतिः
तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्। ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः
न तु केकयराजानं जनकं वा नराधिपः। त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्
अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने। ततः प्रविविशुः शेषा राजानो लोकसम्मताः
अथ राजवितीर्णेषु विविधेष्वासनेषु च। राजानमेवाभिमुखा निषेदुर्नियता नृपाः
स लब्धमानैर्विनयान्वितैर्नृपैः पुरालयैर्जानपदैश्च मानवैः। उपोपविष्टैर्नृपतिर्वृतो बभौ सहस्रचक्षुर्भगवानिवामरैः
thumb|द्वितीयः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः। हितमुद्धर्षणं चैवमुवाच प्रथितं वचः
राजलक्षणयुक्तेन कान्तेनानुपमेन च। उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्
विदितं भवतामेतद् यथा मे राज्यमुत्तमम्। पूर्वकैर्मम राजेन्द्रैः सुतवत् परिपालितम्
सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः प्रतिपालितम्। श्रेयसा योक्तुमिच्छामि सुखार्हमखिलं जगत्
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता। प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्। पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः। जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये
राजप्रभावजुष्टां च दुर्वहामजितेन्द्रियैः। परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्
सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते। संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्
अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः। पुरन्दरसमो वीर्ये रामः परपुरंजयः
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्। यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुङ्गवम्
अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः। त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्
अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम्। गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै
यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्। भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्
यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्। अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया
इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम्। वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः
स्निग्धोऽनुनादः संजज्ञे ततो हर्षसमीरितः। जनौघोद्घुष्टसंनादो मेदिनीं कम्पयन्निव
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः। ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह