हन्तारो ब्राह्मणान्ये तु मृषापूर्वमदूषकान् । तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ।। ७.८६.
प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे । तथा भवतु तत्सर्वं साधयस्व यदीप्सितम् ।। ७.८६.
ततः प्रीत्या ऽन्विता देवाः सहस्राक्षं ववन्दिरे । विज्वरः स च पूतात्मा वासवः समपद्यत ।। ७.८६.
प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठिते । यज्ञं चाद्भुतसङ्काशं तदा शक्रो ऽभ्यपूजयत् ।। ७.८६.
ईदृशो ह्यश्वमेधस्य प्रसादो रघुनन्दन । यजस्व सुमहाभाग हयमेधेन पार्थिव ।। ७.८६.
इति लक्ष्मणवाक्यमुत्तमं नृपतिरतीव मनोहरं महात्मा । परितोषमवाप हृष्टचेता निशमय्येन्द्रसमानविक्रमौजाः ।। ७.८६.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षडशीतितमः सर्गः
तच्छ्रुत्वा लक्ष्मणेनोक्तं वाक्यं वाक्यविशारदः । प्रत्युवाच महातेजाः प्रहसन्राघवो वचः ।। ७.८७.
एवमेव नरश्रेष्ठ यथा वदसि लक्ष्मण । वृत्रघातमशेषेण वाजिमेधफलं च यत् ।। ७.८७.
श्रूयते हि पुरा सौम्य कर्दमस्य प्रजापतेः । पुत्रो बाह्लीश्वरः श्रीमानिलो नाम महाशयाः ।। ७.८७.
स राजा पृथिवीं सर्वां वशे कृत्वा सुधार्मिकः । राज्यं चैव नरव्याघ्र पुत्रवत्पर्यपालयत् ।। ७.८७.
सुरैश्च परमोदारैर्दैतेयैश्च महाधनैः । नागराक्षसगन्धर्वैर्यक्षैश्च सुमहात्मभिः ।। ७.८७.
पूज्यते नित्यशः सौम्य भयार्तै रघुनन्दन । अबिभ्यंश्च त्रयो लोकाः सरोषस्य महात्मनः ।। ७.८७.
स राजा तादृशो ह्यासीद्धर्मे वीर्ये च निष्ठितः । बुद्ध्या च परमोदारो बाह्लीकेशो महायशाः ।। ७.८७.
स प्रचक्रे महाबाहुर्मृगयां रुचिरे वने । चैत्रे मनोरमे मासि सभृत्यबलवाहनः ।। ७.८७.
प्रजघ्ने च नृपो ऽरण्ये मृगाञ्छतसहस्रशः । हत्वैव तृप्तिर्नाभूच्च राज्ञस्तस्य महात्मनः ।। ७.८७.
नानामृगाणामयुतं वध्यमानं महात्मना । यत्र जातो माहासेनस्तं देशमुपचक्रमे ।। ७.८७.
तस्मिन्प्रदेशे देवेश शैलराजसुतां हरः । रमयामास दुर्धर्षः सर्वैरनुचरैः सह ।। ७.८७.
कृत्वा स्त्रीरूपमात्मानमुमेशो गोपतिध्वजः । देव्याः प्रियचिकीर्षुः संस्तस्मिन्पर्वतनिर्झरे ।। ७.८७.
ये तु तत्र वनोद्देशे सत्त्वाः पुरुषवादिनः । वृक्षाः पुरुषनामानस्ते ऽभवन् स्त्रीजनास्तदा ।। ७.८७.
यच्च किञ्चन तत्सर्वं नारीसञ्ज्ञं बभूव ह । एतस्मिन्नन्तरे राजा स इलः कर्दमात्मजः । निघ्नन्मृगसहस्राणि तं देशमुपचक्रमे ।। ७.८७.
स दृष्ट्वा स्त्रीकृतं सर्वं सव्यालमृगपक्षकम् । आत्मनं स्त्रीकृतं चैव सानुगं रघुनन्दन ।। ७.८७.
तस्य दुःखं महच्चासीद्दृष्ट्वा ऽ ऽत्मानं तथागतम् । उमापतेश्च तत्कर्म ज्ञात्वा त्रासमुपागमत् ।। ७.८७.
ततो देवं महात्मानं शितिकण्ठं कपर्दिनम् । जगाम शरणं राजा सभृत्यबलवाहनः ।। ७.८७.
ततः प्रहस्य वरदः सह देव्या महेश्वरः । प्रजापतिसुतं वाक्यमुवाच वरदः स्वयम् ।। ७.८७.
उत्तिष्ठोत्तिष्ठ राजर्षे कार्दमेय महाबल । पुरुषत्वमृते सौम्य वरं वरय सुव्रत ।। ७.८७.
ततः स राजा दुःखार्तः प्रत्याख्यातो महात्मना । न च जग्राह स्त्रीभूतो वरमन्यं सुरोत्तमात् ।। ७.८७.
ततः शोकेन महता शैलराजसुतां नृपः । प्रणिपत्य ह्युमां देवीं सर्वेणैवान्तरात्मना ।। ७.८७.
ईशे वराणां वरदे लोकानामसि भामिनी । अमोघदर्शने देवी भज सौम्येन चक्षुषा ।। ७.८७.
हृद्गतं तस्य राजर्षेर्विज्ञाय हरसन्निधौ । प्रत्युवाच शुभं वाक्यं देवी रुद्रस्य संमता ।। ७.८७.