भद्रं ते ऽस्तु गमिष्यामो वृत्रासुरवधैषिणः । भजस्व परमोदार वासवं स्वेन तेजसा ।। ७.८५.
ततः सर्वे महात्मानः सहस्राक्षपुरोगमाः । तदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ।। ७.८५.
ते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् । पिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ।। ७.८५.
दृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् । कथमेनं वधिष्यामः कथं न स्यात्पराजयः ।। ७.८५.
तेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः । वज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ।। ७.८५.
कालाग्निनेव घोरेण तप्तेनैव महार्चिषा । पतता वृत्रशिरसा जगत्ऺत्रासमुपागमत् ।। ७.८५.
असम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः । चिन्तयानो जगामाशु लोकस्यान्तं महायशाः ।। ७.८५.
तमिन्द्रं ब्रह्महत्या ऽ ऽशु गच्छन्तमनुगच्छति । अपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ।। ७.८५.
हतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः । विष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ।। ७.८५.
त्वं गतिः परमेशान पूर्वजो जगतः पिता । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ।। ७.८५.
हतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् । बाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ।। ७.८५.
तेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् । मामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ।। ७.८५.
पुण्येन हयमेधेन मामिष्ट्वा पाकशासनः । पुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ।। ७.८५.
एवं सन्दिश्य तां वाणीं देवानाममृतोपमाम् । जगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ।। ७.८५.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चाशीतितमः सर्गः
तदा वृत्रवधं सर्वमखिलेन स लक्ष्मणः । कथयित्वा नरश्रेष्ठः कथाशेषं प्रचक्रमे ।। ७.८६.
ततो हते महावीर्ये वृत्रे देवभयङ्करे । ब्रह्महत्यावृतः शक्रः सञ्ज्ञां लेभे न वृत्रहा ।। ७.८६.
सो ऽन्तमाश्रित्य लोकानां नष्टसञ्ज्ञो विचेतनः । कालं तत्रावसत्कञ्चिद्वेष्टमान इवोरगः ।। ७.८६.
अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् । भूमिश्च ध्वस्तसङ्काशा निःस्नेहा शुष्ककानना ।। ७.८६.
निःस्रोतसश्च ते सर्वे तु ह्रदाश्च सरितस्तथा । सङ्क्षोभश्चैव सत्त्वानामनावृष्टिकृतो ऽभवत् ।। ७.८६.
क्षीयमाणे तु लोके ऽस्मिन्सम्भ्रान्तमनसः सुराः । यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ।। ७.८६.
ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः । तं देशं समुपाजग्मुर्यत्रेन्द्रो भयमोहितः ।। ७.८६.
ते तु दृष्ट्वा सहस्राक्षमावृतं ब्रह्महत्यया । तं पुरस्कृत्य देवेशमश्वमेधमुपाक्रमन् ।। ७.८६.
ततो ऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः । ववृधे ब्रह्महत्ययाः पावनार्थं नरेश्वर ।। ७.८६.
ततो यज्ञे समाप्ते तु ब्रह्महत्या महात्मनः । अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ।। ७.८६.
ते तामूचुस्तदा देवास्तुष्टाः प्रीतिसमन्विताः । चतुर्धा विभजात्मानमात्मनैव दुरासदे ।। ७.८६.
देवानां भाषितं श्रुत्वा ब्रह्महत्या महात्मनाम् । सन्निधौ स्थानमन्यत्र वरयामास दुर्वसा ।। ७.८६.
एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै । चतुरो वार्षिकान्मासान्दर्पघ्नी कामवारिणी ।। ७.८६.
भूम्यामहं सर्वकालमेकेनांशेन सर्वदा । वसिष्यामि न सन्देहः सत्येनैतद्ब्रवीमि वः ।। ७.८६.
यो ऽयमंशस्तृतीयो मे स्त्रीषु यौवनशालिषु । त्रिरात्रं दर्पपूर्णासु वशिष्ये दर्पघातिनी ।। ७.८६.