श्रुत्वा तु राघवस्यैतद्वाक्यं वाक्यविशारदः । भरतः प्राञ्जलिर्भूत्वा वाक्यमेतदुवाच ह ।। ७.८३.
त्वयि धर्मः परः साधो त्वयि सर्वा वसुन्धरा । प्रतिष्ठिता महाबाहो यशश्चामितविक्रम ।। ७.८३.
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः । निरीक्षन्ते महात्मानं लोकानाथं यथा वयम् ।। ७.८३.
पुत्राश्च पितृवद्राजन्पश्यन्ति त्वां महाबल । पृथिव्या गतिभूतो ऽसि प्राणिनामपि राघव ।। ७.८३.
स त्वमेवंविधं यज्ञमाहर्तासि कथं नृप । पृथिव्यां राजवंशानां विनाशो यत्र दृश्यते ।। ७.८३.
पृथिव्यां ये च पुरुषा राजन्पौरुषमागताः । सर्वेषां भविता तत्र सङ्क्षयः सर्वकोपजः ।। ७.८३.
स त्वं पुरुषशार्दूल गुणैरतुलविक्रम । पृथिवीं नार्हसे हन्तुं वशे हि तव वर्तते ।। ७.८३.
भरतस्य तु तद्वाक्यं श्रुत्वा ऽमृतमयं तदा । प्रहर्षमतुलं लेभे रामः सत्यपराक्रमः ।। ७.८३.
उवाच च शुभं वाक्यं कैकेय्यानन्दवर्धनम् । प्रीतो ऽस्मि परितुष्टो ऽस्मि तवाद्य वचने ऽनघ ।। ७.८३.
इदं वचनमक्लीबं त्वया धर्मसमाहितम् । व्याहृतं पुरुषव्याघ्र पृथिव्याः परिपालनम् ।। ७.८३.
एष्यदस्मदभिप्रायाद्राजसूयात्क्रतूत्तमात् । निवर्तयामि धर्मज्ञ तव सुव्याहृतेन च ।। ७.८३.
लोकपीडाकरं कर्म न कर्तव्यं विचक्षणैः । बालानां तु शुभं वाक्यं ग्राह्य लक्ष्मणपूर्वज । तस्माच्छृणोमि ते वाक्यं साधु युक्तं महामते ।। ७.८३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्र्यशीतितमः सर्गः
तथोक्तवति रामे तु भरते च महात्मनि । लक्ष्मणो ऽथ शुभं वाक्यमुवाच रघुनन्दनम् ।। ७.८४.
अश्वमेधो महायज्ञः पावनः सर्वपाप्मनाम् । पावनस्तव दुर्धर्षो रोचतां रघुनन्दन ।। ७.८४.
श्रूयते हि पुरावृत्तं वासवे सुमहात्मनि । ब्रह्महत्यावृतः शक्रो हयमेधेन पावितः ।। ७.८४.
पुरा किल महाबाहो देवासुरसमागमे । वृत्रो नाम महानासीद्दैतेयो लोकसम्मतः ।। ७.८४.
विस्तीर्णो योजनशतमुच्छ्रितस्त्रिगुणं ततः । अनुरागेण लोकांस्त्रीन्स्नेहात्पश्यति सर्वतः ।। ७.८४.
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः । शशास पृथिवीं स्फीतां धर्मेण सुसमाहितः ।। ७.८४.
तस्मिन्प्रशासति तदा सर्वकामदुघा मही । रसवन्ति प्रभूनानि मूलानि च फलानि च ।। ७.८४.
अकृष्टपच्या पृथिवी सुसम्पन्ना महात्मनः । स राज्यं तादृशं भुङ्क्ते स्फीतमद्भुतदर्शनम् ।। ७.८४.
तस्य बुद्धिः समुप्तन्ना तपः कुर्यामनुत्तमम् । तपो हि परमं श्रेयः सम्मोहमितरत्सुखम् ।। ७.८४.
स निक्षिप्य सुतं ज्येष्ठं पौरेषु मधुरेश्वरम् । तप उग्रं समातिष्ठत्तापयन्सर्वदेवताः ।। ७.८४.
तपस्तप्यति वृत्रे तु वासवः परमार्तवत् । विष्णुं समुपसङ्क्रम्य वाक्यमेतदुवाच ह ।। ७.८४.
तपस्यता महाबाहो लोकाः वृत्रेण निर्जिताः । बलवान्स हि धर्मात्मा नैनं शक्ष्यामि शासितुम् ।। ७.८४.
यद्यसौ तप आतिष्ठेद्भूय एवासुरेश्वर । यावल्लोका धरिष्यन्ति तावदस्य वशानुगाः ।। ७.८४.
तं चैनं परमोदारमुपेक्षसि महाबलम् । क्षणं हि न भवेद्वृत्रः क्रुद्धे त्वयि सुरेश्वर ।। ७.८४.
यदा हि प्रीतिसंयोगं त्वया विष्णो समागतः । तदाप्रभृति लोकानां नाथत्वमुपलब्धवान् ।। ७.८४.
स त्वं प्रसादं लोकानां कुरुष्व सुसमाहितः । त्वत्कृतेन हि सर्वं स्याप्रशान्तमरुजं जगत् ।। ७.८४.
इमे हि सर्वे विष्णो त्वां निरीक्षन्ते दिवौकसः । वृत्रघातेन महता तेषां साह्यं कुरुष्व ह ।। ७.८४.