कल्याणाभिजनः साधुरदीनः सत्यवागृजुः। वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः
धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान्। लौकिके समयाचारे कृतकल्पो विशारदः
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान्। अमोघक्रोधहर्षश्च त्यागसंयमकालवित्
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचः। निस्तन्द्रीरप्रमत्तश्च स्वदोषपरदोषवित्
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः। यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः
सत्संग्रहानुग्रहणे स्थानविन्निग्रहस्य च। आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्
श्रैष्ठ्यं चास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च। अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्। आरोहे विनये चैव युक्तो वारणवाजिनाम्
धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसम्मतः। अभियाता प्रहर्ता च सेनानयविशारदः
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः। अनसूयो जितक्रोधो न दृप्तो न च मत्सरी
नावज्ञेयश्च भूतानां न च कालवशानुगः। एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः
सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः। बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये चापि शचीपतेः
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः। गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः
तमेवंवृत्तसम्पन्नमप्रधृष्यपराक्रमम्। लोकनाथोपमं नाथमकामयत मेदिनी
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्। दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः
अथ राज्ञो बभूवैव वृद्धस्य चिरजीविनः। प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति
एषा ह्यस्य परा प्रीतिर्हृदि सम्परिवर्तते। कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पकः। मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ। महीधरसमो धृत्यां मत्तश्च गुणवत्तरः
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्। अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम्
इत्येवं विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः। शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः
तं समीक्ष्य तदा राजा युक्तं समुदितैर्गुणैः। निश्चित्य सचिवैः सार्धं यौवराज्यममन्यत
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम्। संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम्
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः। लोके रामस्य बुबुधे सम्प्रियत्वं महात्मनः
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च। प्राप्ते काले स धर्मात्मा भक्त्या त्वरितवान् नृपः
नानानगरवास्तव्यान् पृथग्जानपदानपि। समानिनाय मेदिन्यां प्रधानान् पृथिवीपतिः
तान् वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान्। ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः
न तु केकयराजानं जनकं वा नराधिपः। त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम्
अथोपविष्टे नृपतौ तस्मिन् परपुरार्दने। ततः प्रविविशुः शेषा राजानो लोकसम्मताः
अथ राजवितीर्णेषु विविधेष्वासनेषु च। राजानमेवाभिमुखा निषेदुर्नियता नृपाः