पुराणं पुण्यमत्यर्थं तपस्विजनवर्जितम् । तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ ।। ७.७७.
प्रभाते काल्यमुत्थाय सरस्तदुपचक्रमे । अथापश्यं शवं तत्र सुपुष्टमजरं क्वचित् ।। ७.७७.
पङ्किभेदेन पुष्टाङ्गं समाश्रितसरोवरम् । तिष्ठन्तं परया लक्ष्म्या तस्मिंस्तोयाशये नृप ।। ७.७७.
तमर्थं चिन्तयानो ऽहं मुहूर्तं तत्र राघव । उषितो ऽस्मि सरस्तीरे किन्न्विदं स्यादिति प्रभो ।। ७.७७.
अथापश्यं मुहूर्तेन दिव्यमद्भुतदर्शनम् । विमानं परमोदारं हंसयुक्तं मनोजवम् ।। ७.७७.
अत्यर्थं स्वर्गिणं त विमाने रघुनन्दन । उपास्ते ऽप्सरसां वीर सहस्रं दिव्यभूषणम् ।। ७.७७.
गायन्ति दिव्यगेयानि वादयन्ति तथा ऽपराः । क्ष्वेलयन्ति तथा चान्या नृत्यन्ति च तथा ऽपराः ।। ७.७७.
अपराश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः । दोधूयुर्वदनं तस्य पुण्डरीकनिभेक्षणम् ।। ७.७७.
ततः सिंहासनं त्यक्त्वा मेरुकूटमिवांशुमान् । पश्यतो मे तदा राम विमानादवरुह्य च । तं शवं भक्षयामास स स्वर्गी रघुनन्दन ।। ७.७७.
तथा भुक्त्वा यथाकामं मांसं बहु सुपीवरम् । अवतीर्य सरः स्वर्गी संस्प्रष्टुमुपचक्रमे ।। ७.७७.
उपस्पृश्य यथान्यायं स स्वर्गी रघुपुङ्गव । आरोढुमुपचक्राम विमानवरमुत्तमम् ।। ७.७७.
तमहं देवसङ्काशमारोहन्तमुदीक्ष्य वै । अथाहमब्रुवं वाक्यं स्वर्गिणं पुरुषर्षभ ।। ७.७७.
को भवान्देवसङ्काश आहारश्च विगर्हितः । त्वयेदं भुज्यते सौम्य किमर्थं वक्तुमर्हसि ।। ७.७७.
कस्य स्यादीदृशो भाव आहारो देवसम्मतः । आश्चर्यं वर्तते सौम्य श्रोतुमिच्छामि तत्त्वतः ।। ७.७७.
नाहमौपयिकं मन्ये तव भक्ष्यमिदं शवम् ।। ७.७७.
इत्येवमुक्तः स नरेन्द्र नाकी कौतूहलात्सूनृतया गिरा च । श्रुत्वा च वाक्यं मम सर्वमेतत्सर्वं तथा चाकथयन्ममेति ।। ७.७७.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तसप्ततितमः सर्गः
श्रुत्वा तु भाषितं वाक्यं मम राम शुभाक्षरम् । प्राञ्जलिः प्रत्युवाचेदं स स्वर्गी रघुनन्दन ।। ७.७८.
शृणु ब्रह्मन्पुरा वृत्तं ममैतत्सुखदुःखयोः । अनतिक्रमणीयं हि यथा पृच्छसि मां द्विज ।। ७.७८.
पुरा वैदर्भको राजा पिता मम महायशाः । सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।। ७.७८.
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत । अहं श्वेत इति ख्यातो यवीयान्सुरथो ऽभवत् ।। ७.७८.
ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् । तत्राहं कृतवान्राज्यं धर्म्यं च सुसमाहितः ।। ७.७८.
एवं वर्षसहस्राणि समतीतानि सुव्रत । राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ।। ७.७८.
सो ऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम । कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ।। ७.७८.
सो ऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् । तपश्चर्तुं प्रविष्टो ऽस्मि समीपे सरसः शुभे ।। ७.७८.
भ्रातरं सुरथं राज्ये ह्यभिषिच्य महीपतिम् । इदं सरः समासाद्य तपस्तप्तं मया चिरम् ।। ७.७८.
सो ऽहं वर्षसहस्राणि तपस्त्रीणि महावने । तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ।। ७.७८.
तस्य मे स्वर्गभूतस्य क्षुत्पिपासे द्विजोत्तम । बाधेते परमोदार ततो ऽहं व्यथितेन्द्रियः । गत्वा त्रिभुवनश्रेष्ठं पितामहमुवाच ह ।। ७.७८.
भगवन्ब्रह्मलोको ऽयं क्षुत्पिपासाविवर्जितः । कस्यायं कर्मणः पाकः क्षुत्पिपासानुगो ह्यहम् ।। ७.७८.
आहारः कश्च मे देव तन्मे ब्रूहि पितामह ।। ७.७८.