इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चसप्ततितमः सर्गः
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। ७.७६.
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः । देवत्वं पार्थये राम सशरीरो महायशः ।। ७.७६.
न मिथ्या ऽहं वदे राम देवलोकजिगीषया । शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। ७.७६.
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् । निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। ७.७६.
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।। ७.७६.
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् । पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। ७.७६.
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् । सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। ७.७६.
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम । स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। ७.७६.
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः । उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। ७.७६.
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु । दिशन्तु वरमेतं मे इप्सितं परमं मम ।। ७.७६.
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। ७.७६.
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ । द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। ७.७६.
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। ७.७६.
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः । जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। ७.७६.
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः । तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। ७.७६.
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ । अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। ७.७६.
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः । द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। ७.७६.
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् । त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। ७.७६.
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। ७.७६.
ततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः । रामो ऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ।। ७.७६.
दृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः । अर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ।। ७.७६.
प्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् । जग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ।। ७.७६.
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च । ततो ऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ।। ७.७६.
सो ऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा । आतिथ्यं परमं प्राप्य निषसाद नराधिपः ।। ७.७६.
तमुवाच महातेजाः कुम्भयोनिर्महातपाः । स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तो ऽसि राघव ।। ७.७६.
त्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः । अतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ।। ७.७६.
सुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् । ब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ।। ७.७६.
उष्यतां चेह रजनी सकाशे मम राघव । प्रभाते पुष्पकेण त्वं गन्ता ऽसि पुरमेव हि ।। ७.७६.
त्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् । त्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ।। ७.७६.