प्रायात्प्रतीचीं हरितं विचिन्वंश्च ततस्ततः । उत्तरामगमच्छ्रीमान्दिशं हिमवता वृताम् ।। ७.७५.
अपश्यमानस्तत्रापि स्वल्पमप्यथ दुष्कृतम् । पूर्वामपि दिशं सर्वामथो ऽपश्यन्नराधिपः ।। ७.७५.
प्रविशुद्धसमाचारामादर्शतलनिर्मलाम् । पुष्पकस्थो महाबाहुस्तदापश्यन्नराधिपः ।। ७.७५.
दक्षिणां दिशमाक्रामत्ततो राजर्षिनन्दनः । शैवलस्योत्तरे पार्श्वे ददर्श सुमहत्सरः ।। ७.७५.
तस्मिन्सरसि तप्यन्तं तापसं सुमहत्तपः । ददर्श राघवः श्रीमाँल्लम्बमानमधोमुखम् ।। ७.७५.
राघवस्तमुपागम्य तप्यन्तं तप उत्तमम् । उवाच स तदा वाक्यं धन्यस्त्वमसि सुव्रत ।। ७.७५.
कस्यां योन्यां तपोवृद्ध वर्तसे दृढविक्रम । कौतूहलात्त्वां पृच्छामि रामो दाशरथिर्ह्यहम् ।। ७.७५.
को ऽर्थो मनीषितस्तुभ्यं स्वर्गलाभः परो ऽथवा । वराश्रयो यदर्थं त्वं तपस्यसि सुदुष्करम् । यमाश्रित्य तपस्तप्तं श्रोतुमिच्छामि तापस ।। ७.७५.
ब्राह्मणो वा ऽसि भद्रं ते क्षत्रियो वा ऽसि दुर्जयः । वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यवाग्भव ।। ७.७५.
इत्येवमुक्तः स नराधिपेन ह्यवाक्छिरा दाशरथाय तस्मै । उवाच जातिं नृपपुङ्गवाय यत्कारणे चैव तपःप्रयत्नः ।। ७.७५.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चसप्ततितमः सर्गः
तस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः । अवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ।। ७.७६.
शूद्रयोन्यां प्रसूतो ऽस्मि शम्बूको नाम नामतः । देवत्वं पार्थये राम सशरीरो महायशः ।। ७.७६.
न मिथ्या ऽहं वदे राम देवलोकजिगीषया । शूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ।। ७.७६.
भाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् । निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ।। ७.७६.
तस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः । साधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ।। ७.७६.
पुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् । पुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ।। ७.७६.
सुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् । सुरकार्यमिदं सौम्य सुकृतं ते महामते ।। ७.७६.
गृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम । स्वर्गभाङ्नहि शूद्रो ऽयं त्वत्कृते रघुनन्दन ।। ७.७६.
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः । उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ।। ७.७६.
यदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु । दिशन्तु वरमेतं मे इप्सितं परमं मम ।। ७.७६.
ममापचाराद्यातो ऽसौ ब्राह्मणस्यैकपुत्रकः । अप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ।। ७.७६.
तं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ । द्विजस्य संश्रुतो ऽर्थो मे जीवयिष्यामि ते सुतम् ।। ७.७६.
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः । प्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ।। ७.७६.
निर्वृतो भव काकुत्स्थ सो ऽस्मिन्नहनि बालकः । जीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ।। ७.७६.
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रो ऽयं विनिपातितः । तस्मिन्मुहूर्ते बालो ऽसौ जीवेन समयुज्यत ।। ७.७६.
स्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ । अगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ।। ७.७६.
तस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः । द्वादशं हि गतं वर्षं जलशय्यां समासतः ।। ७.७६.
काकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् । त्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ।। ७.७६.
स तथेति प्रतिज्ञाय देवानां रघुनन्दनः । आरुरोह विमानं तं पुष्पकं हेमभूषितम् ।। ७.७६.