ममापि त्वं सुदयितः प्राणैरपि न संशयः । अवश्यं करणीयं च राज्यस्य परिपालनम् ।। ७.७२.
तस्मात्त्वं वस काकुत्स्थ सप्तरात्रमिहावस । ऊर्ध्वं गन्तासि मधुरां सभृत्यबलवाहनः ।। ७.७२.
रामस्यैतद्वचः श्रुत्वा धर्मयुक्तं मनोगतम् । शत्रुघ्नो दीनया वाचा बाढमित्येव चाब्रवीत् ।। ७.७२.
सप्तरात्रं च काकुत्स्थो राघवस्य यथाज्ञया । उष्य तत्र महेष्वासो गमनायोपचक्रमे ।। ७.७२.
आमन्त्र्य तु महात्मानं रामं सत्यपराक्रमम् । भरतं लक्ष्मणं चैव महारथमुपारुहत् ।। ७.७२.
दूरमाभ्यामनुगतो लक्ष्मणेन महात्मना । भरतेन च शत्रुघ्नो जगामाशु पुरं ततः ।। ७.७२.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे द्विसप्ततितमः सर्गः
प्रस्थाप्य तु स शत्रुघ्नं भ्रातृभ्यां सह राघवः । प्रमुमोद सुखी राज्यं धर्मेण परिपालयन् ।। ७.७३.
ततः कतिपयाहःसु वृद्धो जानपदो द्विजः । मृतं बालमुपादाय राजद्वारमुपागमत् ।। ७.७३.
रुदन्बहुविधा वाचः स्नेहदुःखसमन्विताः । असकृत्पुत्र पुत्रेति वाक्यमेतदुवाच ह ।। ७.७३.
किं नु मे दुष्कृतं कर्म पुरा देहान्तरे कृतम् । यदहं पुत्रमेकं त्वां पश्यामि निधनं गतम् ।। ७.७३.
अप्राप्तयौवनं बालं पञ्चवर्षसहस्रकम् । अकाले कालमापन्नं मम दुःखाय पुत्रक ।। ७.७३.
अल्पैरहोभिर्निधनं गमिष्यामि न संशयः । अहं च जननी चैव तव शोकेन पुत्रक ।। ७.७३.
न स्मराम्यनृतं ह्युक्तं न च हिंसां स्मराम्यहम् । सर्वेषां प्राणिनां पापं कृतं नैव स्मराम्यहम् ।। ७.७३.
केनाद्य दुष्कृतेनायं बाल एव ममात्मजः । अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम् ।। ७.७३.
नेदृशं दृष्टपूर्वं मे श्रुतं वा घोरदर्शनम् । मृत्युरप्राप्तकालानां रामस्य विषये यथा ।। ७.७३.
रामस्य दुष्कृतं किञ्चिन्महदस्ति न संशयः । यथा हि विषयस्थानां बालानां मृत्युरागतः ।। ७.७३.
नह्यन्यविषयस्थानां बालानां मृत्युतो भयम् । त्वं राजञ्जीवयस्वैनं बालं मृत्युवशं गतम् ।। ७.७३.
राजद्वारि मरिष्यामि पत्न्या सार्धमनाथवत् । ब्रह्महत्यां ततो राम समुपेत्य सुखी भव ।। ७.७३.
भ्रातृभिः सहितो राजन्दीर्घमायुरवाप्स्यसि । उषिताः स्म सुखं राज्ये तवास्मिन्सुमहाबल ।। ७.७३.
इदं तु पतितं तस्मात्तव राम वशे स्थिताः । कालस्य वशमापन्नाः स्वल्पं हि नहि नः सुखम् ।। ७.७३.
सम्प्रत्यनाथो विषय इक्ष्वाकूणां महात्मनाम् । रामं नाथमिहासाद्य बालान्तकरणं ध्रुवम् ।। ७.७३.
राजदोषैर्विपद्यन्ते प्रजा ह्यविधिपालिताः । असद्वृत्ते तु नृपतावकाले म्रियते जनः ।। ७.७३.
यद्वा पुरेष्वयुक्तानि जना जनपदेषु च । कुर्वते न च रक्षा ऽस्ति तदा कालकृतं भयम् ।। ७.७३.
सुव्यक्तं राजदोषो हि भविष्यति न संशयः । पुरे जनपदे चापि ततो बालवधो ह्ययम् ।। ७.७३.
एवं बहुविधैर्वाक्यैरुपरुध्य मुहुर्मुहुः । राजानं दुःखसन्तप्तः सुतं तमुपगूहते ।। ७.७३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिसप्ततितमः सर्गः
तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्वं दुःखशोकसमन्वितम् ।। ७.७४.
स दुःखेन च सन्तप्तो मन्त्रिणस्तानुपाह्वयत् । वसिष्ठं वामदेवं च भ्रातरौ सह नैगमान् ।। ७.७४.
ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः । राजानं देवसङ्काशं वर्धस्वेति ततो ऽब्रुवन् ।। ७.७४.