तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते । दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।। ७.६९.
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् । जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।। ७.६९.
उवाच देवदेवेशं वरदं प्रपितामहम् । देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह । देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । भयकारणमाचष्ट लोकानामभयङ्करः । उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।। ७.६९.
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः । तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।। ७.६९.
एष पूर्वस्य देवस्य लोककर्तुः सनातनः । शरस्तेजोमयो वत्सा येन वै भयमागतम् ।। ७.६९.
एष वै कैटभस्यार्थे मधुनश्च महाशरः । सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।। ७.६९.
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् । एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।। ७.६९.
इतो गच्छत पश्यध्वं वध्यमानं महात्मना । रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।। ७.६९.
तस्य ते देवदेवस्य निशम्य वचनं सुराः । आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ ।। ७.६९.
तं शरं दिव्यसङ्काशं शत्रुघ्नकरधारितम् । ददृशुः सर्वभूतानि युगान्ताग्निमिवोत्थितम् ।। ७.६९.
अकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः । सिंहनादं भृशं कृत्वा ददर्श लक्षणं पुनः ।। ७.६९.
आहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना । लवणः क्रोधसंयुक्तो युद्धाय समुपस्थितः ।। ७.६९.
आकर्णात्स विकृष्याथ तद्धनुर्धन्विनां वरः । तं मुमोच महाबाणं लवणस्य महोरसि ।। ७.६९.
उरस्तस्य विदार्याशु प्रविवेश रसातलम् ।। ७.६९.
गत्वा रसातलं दिव्यः शरो विबुधपूजितः । पुनरेवागमत्तूर्णमिक्ष्वाकुकुलनन्दनम् ।। ७.६९.
शत्रुघ्नशरनिर्भिन्नो लवणः स निशाचरः । पपात सहसा भूमौ वज्राहत इवाचलः ।। ७.६९.
तच्च शूलं महत्तेन हते लवणराक्षसे । पश्यतां सर्वदेवानां रुद्रस्य वशमन्वगात् ।। ७.६९.
एकेषुपातेन भृशं निपात्य लोकत्रयस्यापि रघुप्रवीरः । विनिर्बभावुत्तमचापबाणस्तमः प्रणुद्येव सहस्ररश्मिः ।। ७.६९.
ततो हि देवा ऋषिपन्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः । दिष्ट्या जयो दाशरथेरवाप्तस्त्यक्त्वा भयं सर्प इव प्रशान्तः ।। ७.६९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनसप्ततितमः सर्गः
हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरां वाणीं शत्रुघ्नं शत्रुतापनम् ।। ७.७०.
दिष्ट्या ते विजयो वत्स दिष्ट्या लवणराक्षसः । हतः पुरुषशार्दूल वरं वरय सुव्रत ।। ७.७०.
वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाङ्क्षिणस्तुभ्यममोघं दर्शनं हि नः ।। ७.७०.
देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुघ्नः प्रयतात्मवान् ।। ७.७०.
इयं मधुपुरी रस्या मधुरा देवनिर्मिता । निवेशं प्राप्नुयाच्छीघ्रमेष मे ऽस्तु वरः परः ।। ७.७०.
तं देवाः प्रीतमनसो बाढमित्येव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ।। ७.७०.
ते तथोक्त्वा महात्मानो दिवमारुरुहुस्तदा । शत्रुघ्नो ऽपि महातेजास्तां सेनां समुपानयत् ।। ७.७०.
सा सेना शीघ्रमागच्छच्छ्रुत्वा शत्रुघ्नशासनम् । निवेशनं च शत्रुघ्नः श्रावणेन समारभत् ।। ७.७०.