इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टषष्टितमः सर्गः
तच्छ्रुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः । क्रोधामाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत् ।। ७.६९.
पाणौ पाणिं विनिष्पिष्य दन्तान्कटकटाय्य च । लवणो रघुशार्दूलमाह्वयामास चासकृत् ।। ७.६९.
तं ब्रुवाणं तथा वाक्यं लवणं घोरदर्शनम् । शत्रुघ्नो देवशत्रुघ्न इदं वचनमब्रवीत् ।। ७.६९.
न शत्रुघ्नस्तथा जातो यथा ऽन्ये निर्जितास्त्वया । तदद्य बाणाभिहतो व्रज त्वं यमसादनम् ।। ७.६९.
ऋषयो ऽप्यद्य पापात्मन्मया त्वां निहतं रणे । पश्यन्तु विप्रा विद्वांसस्त्रिदशा इव रावणम् ।। ७.६९.
त्वयि मद्बाणनिर्दग्धे पतिते ऽद्य निशाचर । पुरे जनपदे चापि क्षेममेव भविष्यति ।। ७.६९.
अद्य मद्बाहुनिष्क्रान्तः शरो वज्रनिभाननः । प्रवेक्ष्यते ते हृदयं पद्ममंशुरिवार्कजः ।। ७.६९.
एवमुक्तो महावृक्षं लवणः क्रोधमूर्च्छितः । शत्रुघ्नोरसि चिक्षेप स च तं शतधाच्छिनत् ।। ७.६९.
तद्दृष्ट्वा विफलं कर्म राक्षसः पुनरेव तु । पादपान्सुबहून्गृह्य शत्रुघ्नायासृजद्बली ।। ७.६९.
शत्रुघ्नश्चापि तेजस्वी वृक्षानापततो बहून् । त्रिभिश्चतुर्भिरेकैकं चिच्छेद नतपर्वभिः ।। ७.६९.
ततो बाणमयं वर्षं व्यसृजद्राक्षसोरसि । शत्रुघ्नो वीर्यसम्पन्नो विव्यथे न स राक्षसः ।। ७.६९.
ततः प्रहस्य लवणो वृक्षमुद्यम्य वीर्यवान् । शिरस्यभ्यहनच्छूरं स्रस्ताङ्गः स मुमोह वै ।। ७.६९.
तस्मिन्निपतिते वीरे हाहाकारो महानभूत् । ऋषीणां देवसङ्घानां गन्धर्वाप्सरसां तथा ।। ७.६९.
तमवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम् । रक्षो लब्धान्तरमपि न विवेश स्वमालयम् ।। ७.६९.
नापि शूलं प्रजग्राह तं दृष्ट्वा भुवि पातितम् । ततो हत इति ज्ञात्वा तान्भक्षान्समुदावहत् ।। ७.६९.
मुहूर्ताल्लब्धसञ्ज्ञस्तु पुनस्तस्थौ धृतायुधः । शत्रुघ्नो वै पुरद्वारि ऋषिभिः सम्प्रपूजितः ।। ७.६९.
ततो दिव्यममोघं तं जग्राह शरमुत्तमम् । ज्वलन्तं तेजसा घोरं पूरयन्तं दिशो दश ।। ७.६९.
वज्राननं वज्रवेगं मेरुमन्दरसन्निभम् । नतं पर्वसु सर्वेषु संयुगेष्वपराजितम् ।। ७.६९.
असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम् । दानवेन्द्राचलेन्द्राणामसुराणां च दारणम् ।। ७.६९.
तं दीप्तमिव कालाग्निं युगान्ते समुपस्थिते । दृष्ट्वा सर्वाणि भूतानि परित्रासमुपागमन् ।। ७.६९.
सदेवासुरगन्धर्वं मुनिभिः साप्सरोगणम् । जगद्धि सर्वमस्वस्थं पितामहमुपस्थितम् ।। ७.६९.
उवाच देवदेवेशं वरदं प्रपितामहम् । देवानां भयसंमोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.
नेदृशं दृष्टपूर्वं च न श्रुतं प्रपितामह । देवानां भयसम्मोहो लोकानां सङ्क्षयं प्रति ।। ७.६९.
तेषां तद्वचनं श्रुत्वा ब्रह्मा लोकपितामहः । भयकारणमाचष्ट लोकानामभयङ्करः । उवाच मधुरां वाणीं शृणुध्वं सर्वदेवताः ।। ७.६९.
वधाय लवणस्याजौ शरः शत्रुघ्नधारितः । तेजसा तस्य सम्मूढाः सर्वे स्मः सुरसत्तमाः ।। ७.६९.
एष पूर्वस्य देवस्य लोककर्तुः सनातनः । शरस्तेजोमयो वत्सा येन वै भयमागतम् ।। ७.६९.
एष वै कैटभस्यार्थे मधुनश्च महाशरः । सृष्टो महात्मना तेन वधार्थे दैत्ययोस्तयोः ।। ७.६९.
एक एव प्रजानाति विष्णुस्तेजोमयं शरम् । एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः ।। ७.६९.
इतो गच्छत पश्यध्वं वध्यमानं महात्मना । रामानुजेन वीरेण लवणं राक्षसोत्तमम् ।। ७.६९.