स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह। गते च भरते रामो लक्ष्मणश्च महाबलः
पितरं देवसंकाशं पूजयामासतुस्तदा। पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः
चकार रामः सर्वाणि प्रियाणि च हितानि च। मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत। एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा
रामस्य शीलवृत्तेन सर्वे विषयवासिनः। तेषामतियशा लोके रामः सत्यपराक्रमः
स्वयंभूरिव भूतानां बभूव गुणवत्तरः। रामश्च सीतया सार्धं विजहार बहूनृतून्
मनस्वी तद्गतमनास्तस्या हृदि समर्पितः। प्रिया तु सीता रामस्य दाराः पितृकृता इति
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते। तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा। तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी
तया स राजर्षिसुतोऽभिकामया। समेयिवानुत्तमराजकन्यया। अतीव रामः शुशुभे मुदान्वितो विभुः श्रिया विष्णुरिवामरेश्वरः
thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-
स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः। मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः। भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ। उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः। स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः
तेषामपि महातेजा रामो रतिकरः पितुः। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः। अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा। यथा वरेण देवानामदितिर्वज्रपाणिना
स हि रूपोपपन्नश्च वीर्यवाननसूयकः। भूमावनुपमः सूनुर्गुणैर्दशरथोपमः
स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते। उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते
कदाचिदुपकारेण कृतेनैकेन तुष्यति। न स्मरत्यपकाराणां शतमप्यात्मवत्तया
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः। कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः। वीर्यवान्न च वीर्येण महता स्वेन विस्मितः
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः। अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः। दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः
कुलोचितमतिः क्षात्रं स्वधर्मं बहु मन्यते। मन्यते परया प्रीत्या महत् स्वर्गफलं ततः
नाश्रेयसि रतो यश्च न विरुद्धकथारुचिः। उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्। लोके पुरुषसारज्ञः साधुरेको विनिर्मितः
स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः। बहिश्चर इव प्राणो बभूव गुणतः प्रियः
सर्वविद्याव्रतस्नातो यथावत् साङ्गवेदवित्। इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः