अर्धासनेन शक्रस्य राज्यार्धेन च पार्थिवः । वन्द्यमानः सुरगणैः प्रतिज्ञामध्यरोहत ।। ७.६७.
तस्य पापमभिप्रायं विदित्वा पाकशासनः । सान्त्वपूर्वमिदं वाक्यमुवाच युवनाश्वजम् ।। ७.६७.
राजा त्वं मानुषे लोके न तावत्पुरुषर्षभ । अकृत्वा पृथिवीं वश्यां देवराज्यमिहेच्छसि ।। ७.६७.
यदि वीर समग्रा ते मेदिनी निखिला वशे । देवराज्यं कुरुष्वेह सभृत्यबलवाहनः ।। ७.६७.
इन्द्रमेवं ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् । क्व मे शक्र प्रतिहतं शासनं पृथिवीतले ।। ७.६७.
तमुवाच सहस्राक्षो लवणो नाम राक्षसः । मधुपुत्रो मधुवने न ते ऽ ऽज्ञां कुरुते ऽनघ ।। ७.६७.
तच्छ्रुत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् । व्रीडितो ऽवाङ्मुखो राजा व्याहर्तुं न शशाक ह ।। ७.६७.
आमन्त्र्य तु सहस्राक्षं ह्रिया किञ्चिदवाङ्मुखः । पुनरेवागमच्छ्रीमानिमं लोकं नरेश्वरः ।। ७.६७.
स कृत्वा हृदये ऽमर्षं सभृत्यबलवाहनः । आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ।। ७.६७.
स काङ्क्षमाणो लवणं युद्धाय पुरुषर्षभः । दूतं सम्प्रेषयामास सकाशं लवणस्य हि ।। ७.६७.
स गत्वा विप्रियाण्याह बहूनि मधुनः सुतम् । वदन्तमेवं तं दूतं भक्षयामास राक्षसः ।। ७.६७.
चिरायमाणे दूते तु राजा क्रोधसमन्वितः । अर्दयामास तद्रक्षः शरवृष्ट्या समन्ततः ।। ७.६७.
ततः प्रहस्य तद्रक्षः शूलं जग्राह पाणिना । वधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ।। ७.६७.
तच्छूलं दीप्यमानं तु सभृत्यबलवाहनम् । भस्मीकृत्वा नृपं भूयो लवणस्यागमत्करम् ।। ७.६७.
एवं स राजा सुमहान्हतः सबलवाहनः । शूलस्य तु बलं सौम्य अप्रमेयमनुत्तमम् ।। ७.६७.
श्वः प्रभाते तु लवणं वधिष्यसि न संशयः । अगृहीतायुधं क्षिप्रं ध्रुवो हि विजयस्तव ।। ७.६७.
लोकानां स्वस्ति चैव स्यात्कृते कर्मणि च त्वया । एतत्ते सर्वमाख्यातं लवणस्य दुरात्मनः ।। ७.६७.
शूलस्य च बलं घोरमप्रमेयं नरर्षभ । विनाशश्चैव मान्धातुर्यत्तेनाभूच्च पार्थिव ।। ७.६७.
त्वं श्वः प्रभाते लवणं महात्मन्वधिष्यसे नात्र तु संशयो मे । शूलं विना निर्गतमामिषार्थे ध्रुवो जयस्ते भविता नरेन्द्र ।। ७.६७.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तषष्टितमः सर्गः
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् । व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ।। ७.६८.
ततः प्रभाते विमले तस्मिन्काले स राक्षसः । निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ।। ७.६८.
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् । तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ।। ७.६८.
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः । आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ।। ७.६८.
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् । तमुवाच ततो रक्षः किमनेन करिष्यसि ।। ७.६८.
ईदृशानां सहस्राणि सायुधानां नराधम । भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ।। ७.६८.
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम । स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ।। ७.६८.
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः । शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ।। ७.६८.
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः । तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ।। ७.६८.
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् । योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ।। ७.६८.