तथा तांस्तु समाज्ञाप्य प्रस्थाप्य च महद्बलम् । कौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ।। ७.६४.
रामं प्रदक्षिणीकृत्य शिरसा ऽभिप्रणम्य च । रामेण चाभ्यनुज्ञातः शत्रुघ्नः शत्रुतापनः ।। ७.६४.
लक्ष्मणं भरतं चैव प्रणिपत्य कृताञ्जलिः । पुरोहितं वसिष्ठं च शत्रुघ्नः प्रयतात्मवान् । प्रदक्षिणमथो कृत्वा निर्जगाम महाबलः ।। ७.६४.
प्रस्थाप्य सेनामथ सो ऽग्रतस्तदा गजेन्द्रवाजिप्रवरौघसङ्कुलाम् । उपास मासं तु नरेन्द्रपार्श्वतस्त्वथ प्रयातो रघुवंशवर्धनः ।। ७.६४.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे चतुष्षष्टितमः सर्गः
प्रस्थाप्य च बलं सर्वं मासमात्रोषितः पथि । एक एवाशु शत्रुघ्नो जगाम त्वरितं तदा ।। ७.६५.
द्विरात्रमन्तरे शूर उष्य राघवनन्दनः । वाल्मीकेराश्रमं पुण्यमगच्छद्वासमुत्तमम् ।। ७.६५.
सो ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम् । कृताञ्जलिरथो भूत्वा वाक्यमेतदुवाच ह ।। ७.६५.
भगवन्वस्तुमिच्छामि गुरोः कृत्यादिहागतः । श्वः प्रभाते गमिष्यामि प्रतीचीं वारुणीं दिशम् ।। ७.६५.
शत्रुघ्नस्य वचः श्रुत्वा प्रहस्य मुनिपुङ्गवः । प्रत्युवाच महात्मानं स्वागतं ते महायशः ।। ७.६५.
स्वमाश्रममिदं सौम्य राघवाणां कुलस्य हि । आसनं पाद्यमर्ध्यं च निर्विशङ्कः प्रतीच्छ मे ।। ७.६५.
प्रतिगृह्य तदा पूजां फलमूलं च भोजनम् । भक्षयामास काकुत्स्थस्तृप्तिं च परमां गतः ।। ७.६५.
स भुक्त्वा फलमूलं च महर्षिं तमुवाच ह । इयं यज्ञविभूतिस्ते कस्याश्रमसमीपतः ।। ७.६५.
तत्तस्य भाषितं श्रुत्वा वाल्मीकिर्वाक्यमब्रवीत् । शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा ।। ७.६५.
युष्माकं पूर्वको राजा सौदासस्तस्य भूपतेः । पुत्रो वीरसहो नाम वीर्यवानतिधार्मिकः ।। ७.६५.
स बाल एव सौदासो मृगयामुपचक्रमे । चञ्चूर्यमाणं ददृशे स शूरो राक्षसद्वयम् ।। ७.६५.
शार्दूलरूपिणौ घोरौ मृगान्बहुसहस्रशः । भक्षमाणावसन्तुष्टौ पर्याप्तिं नैव जग्मतुः ।। ७.६५.
स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम् । क्रोधेन महता ऽ ऽविष्टो जघानैकं महेषुणा ।। ७.६५.
विनिपात्य तमेकं तु सौदासः पुरुषर्षभः । विज्वरो विगतामार्षो हतं रक्षो ह्युदैक्षत ।। ७.६५.
निरीक्षमाणं तं दृष्ट्वा सहायं तस्य रक्षसः । सन्तापमकरोद्घोरं सौदासं चेदमब्रवीत् ।। ७.६५.
यस्मादनपराधं त्वं सहायं मम जघ्निवान् । तस्मात्तवापि पापिष्ठ प्रदास्यामि प्रतिक्रियाम् ।। ७.६५.
एवमुक्त्वा तु तद्राक्षस्तत्रैवान्तरधीयत । कालपर्याययोगेन राजा मित्रसहो ऽभवत् ।। ७.६५.
राजापि यजते यज्ञमस्याश्रमसमीपतः । अश्वमेधं महायज्ञं तं वसिष्ठो ऽभ्यपालयत् ।। ७.६५.
तत्र यज्ञो महानासीद्बहुवर्षगणायुतः । समृद्धः परया लक्ष्म्या देवयज्ञसमो ऽभवत् ।। ७.६५.
अथावसाने यज्ञस्य पूर्ववैरमनुस्मरन् । वसिष्ठरूपी राजानमिति होवाच राक्षसः ।। ७.६५.
अस्य यज्ञस्य जातो ऽन्तः सामिषं भोजनं मम । दीयतामिह शीघ्रं वै नात्र कार्या विचारणा ।। ७.६५.
तच्छ्रुत्वा व्याहृतं वाक्यं रक्षसा ब्रह्मरूपिणा । भक्ष्यसंस्कारकुशलमुवाच पृथिवीपतिः ।। ७.६५.
हविष्यं सामिषं स्वादु यथा भवति भोजनम् । तथा कुरुष्व शीघ्रं वै परितुष्येद्यथा गुरुः ।। ७.६५.
शासनात्पार्थिवेन्द्रस्य सूदः सम्भ्रान्तमानसः । स राक्षसः पुनस्तत्र सूदवेषमथाकरोत् ।। ७.६५.
स मानुषमथो मांसं पार्थिवाय न्यवेदयत् । इदं स्वादु हविष्यं च सामिषं चान्नमाहृतम् ।। ७.६५.