ननन्द स्वजनै राजा गृहे कामैः सुपूजितः। कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः। ततः सीतां महाभागामूर्मिलां च यशस्विनीम्
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः। मंगलालापनैर्होमैः शोभिताः क्षौमवाससः
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्। अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा
रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः। कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः। कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्
भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः। अयं केकयराजस्य पुत्रो वसति पुत्रक
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव। श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा। आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ। युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः
स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह। गते च भरते रामो लक्ष्मणश्च महाबलः
पितरं देवसंकाशं पूजयामासतुस्तदा। पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः
चकार रामः सर्वाणि प्रियाणि च हितानि च। मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः
गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत। एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा
रामस्य शीलवृत्तेन सर्वे विषयवासिनः। तेषामतियशा लोके रामः सत्यपराक्रमः
स्वयंभूरिव भूतानां बभूव गुणवत्तरः। रामश्च सीतया सार्धं विजहार बहूनृतून्
मनस्वी तद्गतमनास्तस्या हृदि समर्पितः। प्रिया तु सीता रामस्य दाराः पितृकृता इति
गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते। तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते
अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा। तस्य भूयो विशेषेण मैथिली जनकात्मजा। देवताभिः समा रूपे सीता श्रीरिव रूपिणी
तया स राजर्षिसुतोऽभिकामया। समेयिवानुत्तमराजकन्यया। अतीव रामः शुशुभे मुदान्वितो विभुः श्रिया विष्णुरिवामरेश्वरः
thumb|प्रथमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-
स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः। मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः। भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ। उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः। स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः
तेषामपि महातेजा रामो रतिकरः पितुः। स्वयम्भूरिव भूतानां बभूव गुणवत्तरः
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः। अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा। यथा वरेण देवानामदितिर्वज्रपाणिना
स हि रूपोपपन्नश्च वीर्यवाननसूयकः। भूमावनुपमः सूनुर्गुणैर्दशरथोपमः
स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते। उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते