ऋषयश्च महात्मानो यमुनातीरवासिनः । हतं लवणमाशंसुः शत्रुघ्नस्याभिषेचनात् ।। ७.६३.
ततो ऽभिषिक्तं शत्रुघ्नमङ्कमारोप्य राघवः । उवाच मधुरां वाणीं तेजस्तस्याभिपूरयन् ।। ७.६३.
अयं शरस्त्वमोघस्ते दिव्यः परपुरञ्जयः । अनेन लवणं सौम्य हन्ता ऽसि रघुनन्दन ।। ७.६३.
सृष्टः शरो ऽयं काकुत्स्थ यदा शेते महार्णवे ।। ७.६३.
स्वयम्भूरजितो देवो यन्नापश्यन्सुरासुराः । अदृश्यः सर्वभूतानां तेनायं तु शरोत्तमः ।। ७.६३.
सृष्टः क्रोधाभिभूतेन विनाशार्थं दुरात्मनोः । मधुकैटभयोर्वीर विघाते वर्तमानयोः । स्रष्टुकामेन लोकांस्त्रींस्तौ चानेन हतौ युधि ।। ७.६३.
तौ हत्वा जनभोगार्थं कैटभं तु मधुं तथा । अनेन शरमुख्येन ततो लोकांश्चकार सः ।। ७.६३.
नायं मया शरः पूर्वं रावणस्य वधार्थिना । मुक्तः शत्रुघ्न भूतानां महांस्त्रासो भवेदिति ।। ७.६३.
यच्च तस्य महच्छूलं त्र्यम्बकेण महात्मना । दत्तं शत्रुविनाशाय मधोरायुधमुत्तमम् ।। ७.६३.
स तं निक्षिप्य भवने पूज्यमान पुनः पुनः । दिशः सर्वाः समासाद्य प्राप्नोत्याहारमुत्तमम् ।। ७.६३.
यदा तु युद्धमाकाङ्क्षन् कश्चिदेनं समाह्वयेत् । तदा शूलं गहीत्वा तं भस्म रक्षः करोति हि ।। ७.६३.
स त्वं पुरुषशार्दूल तमायुधविनाकृतम् । अप्रविष्टं पुरं पूर्वं द्वारि तिष्ठ धृतायुधः ।। ७.६३.
अप्रविष्टं च भवनं युद्धाय पुरुषर्षभ । आह्वयेथा महाबाहो ततो हन्तासि राक्षसम् ।। ७.६३.
अन्यथा क्रियमाणे तु अवध्यः स भविष्यति । यदि त्वेवं कृते वीर विनाशमुपयास्यति ।। ७.६३.
एतत्ते सर्वमाख्यातं शूलस्य च विपर्ययः । श्रीमतः शितिकण्ठस्य कृत्यं हि दुरतिक्रमम् ।। ७.६३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिषष्टितमः सर्गः
एवमुक्त्वा च काकुत्स्थं प्रशस्य च पुनः पुनः । पुनरेवापरं वाक्यमुवाच रघुनन्दनः ।। ७.६४.
इमान्यश्वसहस्राणि चत्वारि पुरुषर्षभ । रथानां द्वे सहस्रे च गजानां शतमुत्तमम् ।। ७.६४.
अन्तरा पणवीथ्यश्च नानापण्योपशोभिताः । अनुगच्छन्तु काकुत्स्थं तथैव नटनर्तकाः ।। ७.६४.
हिरण्यस्य सुवर्णस्य नियुतं पुरुषर्षभ । आदाय गच्छ शत्रुघ्न पर्याप्तधनवाहनः ।। ७.६४.
बलं च सुभृतं वीर हृष्टपुष्टमनुद्धतम् । सम्भाषासम्प्रदानेन रञ्जयस्व नगेत्तम ।। ७.६४.
न ह्यर्थास्तत्र तिष्ठन्ति न दारा न च बान्धवाः । सुप्रीतो भृत्यवर्गश्च यत्र तिष्ठसि राघव ।। ७.६४.
ततो हृष्टजनाकीर्णां प्रस्थाप्य महतीं चमूम् । एक एव धनुष्पाणिर्गच्छ त्वं मधुनो वनम् ।। ७.६४.
यथा त्वां न प्रजानाति गच्छन्तं युद्धकाङ्क्षिणम् । लवणस्तु मधोः पुत्रस्तथा गच्छेरशङ्कितम् ।। ७.६४.
न तस्य मूत्युरन्यो ऽस्ति कश्चिद्धि पुरुषर्षभ । दर्शनं यो ऽभिगच्छेत स वध्यो लवणेन हि ।। ७.६४.
स हि ग्रीष्मो ऽपयाते तु वर्षारात्र उपागते । हन्यास्त्वं लवणं सौम्य सहि कालो ऽस्य दुर्मतेः ।। ७.६४.
महर्षींस्तु पुरत्कृत्य प्रयान्तु तव सौनिकाः । यथा ग्रीष्मावशेषेण तरेयुर्जाह्नवीजलम् ।। ७.६४.
तत्र स्थाप्य बलं सर्वं नदीतीरे समाहितः । अग्रतो धनुषा सार्धं गच्छ त्वं लघुविक्रमः ।। ७.६४.
एवमुक्तस्तु रामेण शत्रुघ्नस्तान्महाबलान् । सेनामुख्यान्समानीय ततो वाक्यमुवाच ह ।। ७.६४.
एते वो गणिता वासा यत्र तत्र निवत्स्यथ । स्थातव्यं चाविरोधेन यथा बाधा न कस्यचित् ।। ७.६४.