इदं राज्यं च सकलं जीवितं च हृदि स्थितम् । सर्वमेतद्द्विदार्थं मे सत्यमेतद्ब्रवीमि वः ।। ७.६०.
तस्य तद्वचनं श्रुत्वा साधुकारो महानभूत् । ऋषीणामुग्रतपसां यमुनातीरवासिनाम् ।। ७.६०.
ऊचुश्च ते महात्मानो हर्षेण महता वृताः । उपपन्नं नरश्रेष्ठ तवैव भुवि नान्यतः ।। ७.६०.
बहवः पार्थिवा राजन्नतिक्रान्ता महाबलाः । कार्यस्य गौरवं मत्वा प्रतिज्ञां नाभ्यरोचयन् ।। ७.६०.
त्वया पुनर्ब्राह्मणगौरवादियं कृता प्रतिज्ञा ह्यनवेक्ष्य कारणम् । ततश्च कर्ता ह्यसि नात्र संशयो महाभयात्ऺत्रातुमृषींस्त्वमर्हसि ।। ७.६०.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षष्टितमः सर्गः
एवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् । किं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ।। ७.६१.
तथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् । भयानां शृणु यन्मूलं देशस्य च नरेश्वर ।। ७.६१.
पूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः । लोलापुत्रो ऽभवज्ज्येष्ठो मधुर्नाम महासुरः ।। ७.६१.
ब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः । सुरैश्च परमोदारैः प्रीतिस्तस्यातुला ऽभवत् ।। ७.६१.
स मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः । बहुवर्षसहस्राणि रुद्रप्रीत्या ऽकरोत्तपः ।। ७.६१.
रुद्रः प्रीतो ऽभवत्तस्मै वरं दातुं ययौ च सः । बहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ।। ७.६१.
शूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् । ददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ।। ७.६१.
त्वयायमतुलो धर्मो मत्प्रसादकरः कृतः । प्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ।। ७.६१.
यावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर । तावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ।। ७.६१.
यश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः । तं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ।। ७.६१.
एवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः । प्रणिपत्य महादेवं वाक्यमेतदुवाच ह ।। ७.६१.
भगवन्मम वंशस्य शूलमेतदनुत्तमम् । भवेत्तु सततं देव सुराणामीश्वरो ह्यसि ।। ७.६१.
तं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः । प्रत्युवाच महातेजा नैतदेवं भविष्यति ।। ७.६१.
मा भूत्ते विफला वाणी मत्प्रसादकृता शुभा । भवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ।। ७.६१.
यावत्करस्थः शूलो ऽयं भविष्यति सुतस्य ते । अवध्यः सर्वभूतानां शूलहस्तो भविष्यति ।। ७.६१.
एवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् । भवनं सो ऽसुरश्रेष्ठः कारयामास सुप्रभम् ।। ७.६१.
तस्य पत्नी महाभागा प्रिया कुम्भीनसीति या । विश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ।। ७.६१.
तस्याः पुत्रो महावीर्यो लवणो नाम दारुणः । बाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ।। ७.६१.
तं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः । मधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ।। ७.६१.
स विहाय त्विमं लोकं प्रविष्टो वरुणालयम् । शूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ।। ७.६१.
स प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा । सन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ।। ७.६१.
एवंप्रभावो लवणः शूलं चैव तथाविधम् । श्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ।। ७.६१.
बहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा । अभयं याचिता वीर त्रातारं न च विद्महे ।। ७.६१.
ते वयं रावणं श्रुत्वा हतं सबलवाहनम् । त्रातारं विद्महे तात नान्यं भुवि नराधिपम् । तत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ।। ७.६१.