पूरोर्वचनमाज्ञाय नाहुषः परया मुदा । प्रहर्षमतुलं लेभे जरां सङ्क्रामयच्च ताम् ।। ७.५९.
ततः स राजा तरुणः प्राप्य यज्ञान्सहस्रशः । बहुवर्षसहस्राणि पालयामास मेदिनीम् ।। ७.५९.
अथ दीर्घस्य कालस्य राजा पूरुमथाब्रवीत् । आनयस्व जरां पुत्र न्यासं निर्यातयस्व मे ।। ७.५९.
न्यासभूता मया पुत्र त्वयि सङ्क्रामिता जरा । तस्मात्प्रतिग्रहीष्यामि तां जरां मा व्यथां कृथाः ।। ७.५९.
प्रीतश्चास्मि महाबाहो शासनस्य प्रतिग्रहात् । त्वां चाहमभिषेक्ष्यामि प्रीतियुक्तो नराधिपम् ।। ७.५९.
एवमुक्त्वा सुतं पूरुं ययातिर्नहुषात्मजः । देवयानीसुतं क्रुद्धो राजा वाक्यमुवाच ह ।। ७.५९.
राक्षसस्त्वं मया जातः पुत्ररूपो दुरासदः । प्रतिहंसि ममाज्ञां यत् प्रजार्थे विफलो भव ।। ७.५९.
पितरं गुरुभूतं मां यस्मात्त्वमवमन्यसे । राक्षसान्यातुधानांस्त्वं जनयिष्यसि दारुणान् ।। ७.५९.
न तु सोमकुलोत्पन्ने वंशे स्थास्यति दुर्मतेः । वंशो ऽपि भवतस्तुल्यो दुर्विनीतो भविष्यति ।। ७.५९.
तमेवमुक्त्वा राजर्षिः पूरुं राज्यविवर्धनम् । अभिषेकेण सम्पूज्य आश्रमं प्रविवेश ह ।। ७.५९.
ततः कालेन महता दिष्टान्तमुपजग्मिवान् । त्रिदिवं सङ्गतो राजा ययातिर्नहुषात्मजः ।। ७.५९.
पूरुश्चकार तद्राज्यं धर्मेण महता वृतः । प्रतिष्ठाने पुरवरे काशिराज्ये महायशाः ।। ७.५९.
यदुस्तु जनयामास यातुधानान्सहस्रशः । पुरे क्रौञ्चवने दुर्गे राजवंशबहिष्कृतः ।। ७.५९.
एष तूशनसा मुक्तः शापोत्सर्गो ययातिना । धारितः क्षत्रधर्मेण यन्निमिश्च न चक्षमे ।। ७.५९.
एतत्ते सर्वमाख्यातं दर्शनं सर्वकारिणाम् । अनुवर्तामहे सौम्य दोषो न स्याद्यथा नृगे ।। ७.५९.
इति कथयति रामे चन्द्रतुल्यानने च प्रविरलतरतारं व्योम जज्ञे तदानीम् । अरुणकिरणरक्ता दिग्बभौ चैव पूर्वा कुसुमरसविमुक्तं वस्त्रमाकुण्ठितेव ।। ७.५९.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे एकोनषष्टितमः सर्गः
तयोः संवदतोरेवं रामलक्ष्मणयोस्तदा । वासन्तिकी निशा प्राप्ता न शीता न च घर्मदा ।। ७.६०.
ततः प्रभाते विमले कृतपौर्वाह्णिकक्रियः । अभिचक्राम काकुत्स्थो दर्शनं पौरकार्यवित् ।। ७.६०.
ततः सुमन्त्रस्त्वागम्य राघवं वाक्यमब्रवीत् । एते प्रतिहता राजन्द्वारि तिष्ठन्ति तापसाः ।। ७.६०.
भार्गवच्यवनं चैव पुरस्कृत्य महर्षयः । दर्शनं ते महाराज्ञश्चोदयन्ति कृतत्वराः । प्रीयमाणा नरव्याघ्र यमुनातीरवासिनः ।। ७.६०.
तस्य तद्वचनं श्रुत्वा रामः प्रोवाच धर्मवित् । प्रवेश्यन्तां महाभागा भार्गवप्रमुखा द्विजाः ।। ७.६०.
राज्ञस्त्वाज्ञां पुरस्कृत्य द्वाःस्थो मूर्ध्नि कृताञ्जलिः । प्रवेशयामास तदा तापसान्सुदुरासदान् ।। ७.६०.
शतं समधिकं तत्र दीप्यमानं स्वतेजसा । प्रविष्टं राजभवनं तापसानां महात्मनाम् ।। ७.६०.
ते द्विजाः पूर्णकलशैः सर्वतीर्थाम्बुसत्कृतैः । गृहीत्वा फलमूलं च रामस्याभ्याहरन्बहु ।। ७.६०.
प्रतिगृह्य तु तत्सर्वं रामः प्रीतिपुरस्कृतः । तीर्थोदकानि सर्वाणि फलानि विविधानि च ।। ७.६०.
उवाच च महाबाहुः सर्वानेव महामुनीन् । इमान्यासनमुख्यानि यथार्हमुपविश्यताम् ।। ७.६०.
रामस्य भाषितं श्रुत्वा सर्व एव महर्षयः । बृसीषु रुचिराख्यासु निषेदुः काञ्चनीषु ते ।। ७.६०.
उपविष्टानृषींस्तत्र दृष्ट्वा परपुरञ्जयः । प्रयतः प्राञ्जलिर्भूत्वा राघवो वाक्यमब्रवीत् ।। ७.६०.
किमागमनकार्यं वः किं करोमि समाहितः । आज्ञाप्यो ऽहं महर्षीणां सर्वकामकरः सुखम् ।। ७.६०.