पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ।। ७.५७.
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् । तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ।। ७.५७.
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः । वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ।। ७.५७.
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् । वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ।। ७.५७.
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः । कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ।। ७.५७.
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते । तं च ते योजयामासुर्यागदीक्षां मनीषिणः ।। ७.५७.
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः । गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ।। ७.५७.
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् । आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ।। ७.५७.
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् । वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ।। ७.५७.
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् । नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ।। ७.५७.
बाढमित्येव विबुधा निमेश्चेतस्तदा ऽब्रुवन् । नेत्रेषु सर्वभूतानां वायुभूतश्चरिष्यसि ।। ७.५७.
त्वत्कृते च निमिष्यन्ति चक्षूंषि पृथिवीपते । वायुभूतेन चरता विश्रमार्थं मुहुर्मुहुः ।। ७.५७.
एवमुक्त्वा तु विबुधाः सर्वे जग्मुर्यथागतम् । ऋषयो ऽपि महात्मानो निमेर्देहं समाहरन् ।। ७.५७.
अरणिं तत्र निक्षिप्य मथनं चक्रुरोजसा । मन्त्रहोमैर्महात्मानः पुत्रहेतोर्निमेस्तदा ।। ७.५७.
अरण्यां मथ्यामानायां प्रादुर्भूतो महातपाः । मथनान्मिथिरित्याहुर्जननाज्जनको ऽभवत् । यस्माद्विदेहात्सम्भूतो वैदेहस्तु ततः स्मृतः ।। ७.५७.
एवं विदेहराजश्च जनकः पूर्वको ऽभवत् । मिथिर्नाम महातेजास्तेनायं मैथिलो ऽभवत् ।। ७.५७.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तपञ्चाशः सर्गः
एवं ब्रुवति रामे तु लक्ष्मणः परवीरहा । प्रत्युवाच महात्मानं ज्वलन्तमिव तेजसा ।। ७.५८.
महदद्भुतमाश्चर्यं विदेहस्य पुरातनम् । निर्वृत्तं राजशार्दूल वसिष्ठस्य निमेस्सह ।। ७.५८.
निमिस्तु क्षत्रियः शूरो विशेषेण च दीक्षितः । न क्षमां कृतवान्राजा वसिष्ठस्य महात्मनः ।। ७.५८.
एवमुक्तस्तु तेनायं श्रीमान् क्षत्रियपुङ्गवः । उवाच लक्ष्मणं वाक्यं सर्वशास्त्रविशारदम् ।। ७.५८.
रामो रमयतां श्रेष्ठो भ्रातरं दीप्ततेजसम् । न सर्वत्र क्षमा वीर पुरुषेषु प्रदृश्यते ।। ७.५८.
सौमित्रे दुःसहो रोषो यथा क्षान्तो ययातिना । सत्त्वानुगं पुरस्कृत्य तन्निबोध समाहितः ।। ७.५८.
नहुषस्य सुतो राजा ययातिः पौरवर्धनः । तस्य भार्याद्वयं सौम्य रूपेणाप्रतिमं भुवि ।। ७.५८.
एका तु तस्य राजर्षेर्नाहुषस्य पुरस्कृता । शर्मिष्ठा नाम दैतेयी दुहिता वृषपर्वणः ।। ७.५८.
अन्या तूशनसः पत्नी ययातेः पुरुषर्षभ । न तु सा दयिता राज्ञो देवयानी सुमध्यमा ।। ७.५८.
तयोः पुत्रौ तु सम्भूतौ रूपवन्तौ समाहितौ । शर्मिष्ठा ऽजनयत्पूरुं देवयानी यदुं तदा ।। ७.५८.
पूरुस्तु दयितो राज्ञो गुणैर्मातृकृतेन च । ततो दुःखसमाविष्टो यदुर्मातरमब्रवीत् ।। ७.५८.
भार्गवस्य कुले जाता देवस्याक्लिष्टकर्मणः । सहसे हृद्गतं दुःखमवमानं च दुःसहम् ।। ७.५८.
आवां च सहितौ देवि प्रविशाव हुताशनम् । राजा तु रमतां सार्धं दैत्यपुत्र्या बहुक्षपाः ।। ७.५८.