स तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् । वरुणो वरयामास मैथुनायाप्सरोवराम् ।। ७.५६.
प्रत्युवाच ततः सा तु वरुणं प्राञ्जलिः स्थिता । मित्रेणाहं वृता साक्षात्पूर्वमेव सुरेश्वर ।। ७.५६.
वरुणस्त्वब्रवीद्वाक्यं कन्दर्पशरपीडितः । इदं तेजः समुत्स्रक्ष्ये कुम्भे ऽस्मिन्देवनिर्मिते ।। ७.५६.
एवमुत्सृज्य सुश्रोणि त्वय्यहं वरवर्णिनि । कृतकामो भविष्यामि यदि नेच्छसि सङ्गमम् ।। ७.५६.
तस्य तल्लोकपालस्य वरुणस्य सुभाषितम् । उर्वशी परमप्रीता श्रुत्वा वाक्यमुवाच ह ।। ७.५६.
काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् । भावश्चाप्यधिकस्तुभ्यं देहो मित्रस्य तु प्रभो ।। ७.५६.
उर्वश्या एवमुक्तस्तु रेतस्तन्महदद्भुतम् । ज्वलदग्निशिखाप्रख्यं तस्मिन्कुम्भे ह्यपासृजत् ।। ७.५६.
उर्वशी त्वगमत्तत्र मित्रो वै यत्र देवता । तां तु मित्रः सुसङ्क्रम्य उर्वशीमिदमब्रवीत् ।। ७.५६.
मया निमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता । पतिमन्यं वृतवती तस्मात्त्वं दुष्टचारिणी ।। ७.५६.
अनेन दुष्कृतेन त्वं मत्क्रोधकलुषीकृता । मनुष्यलोकमास्थाय कञ्चित्कालं निवत्स्यसि ।। ७.५६.
बुधस्य पुत्रो राजर्षिः काशीराजः पुरूरवाः । तमद्य गच्छ दुर्बुद्धे स ते भर्ता भविष्यति ।। ७.५६.
ततः सा शापदोषेण पुरूरवसमभ्यगात् । प्रतियाते पुरूरवं बुधस्यात्मजमौरसम् ।। ७.५६.
तस्य जज्ञे ततः श्रीमानायुः पुत्रो महाबलः । नहुषो यस्य पुत्रस्तु बभूवेन्द्रसमद्युतिः ।। ७.५६.
वज्रमुत्सृज्य वृत्राय भ्रान्ते ऽथ त्रिदिवेश्वरे । शतं वर्षसहस्राणि येनेन्द्रत्वं प्रशासितम् ।। ७.५६.
सा तेन शापेन जगाम भूमिं तदोर्वशी चारुदती सुनेत्रा । बहूनि वर्षाण्यवसच्च सुभ्रूः शापक्षयादिन्द्रसदो ययौ च ।। ७.५६.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्पञ्चाशः सर्गः
तां श्रुत्वा दिव्यसङ्काशां कथामद्भुतदर्शनाम् । लक्ष्मणः परमप्रीतो राघवं वाक्यमब्रवीत् ।। ७.५७.
निक्षिप्तदेहौ काकुत्स्थ कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मुर्देवसम्मतौ ।। ७.५७.
तस्य तद्भाषितं श्रुत्वा रामः सत्यपराक्रमः । तां कथां कथयामास वसिष्ठस्य महात्मनः ।। ७.५७.
यस्तु कुम्भो रघुश्रेष्ठ तेजःपूर्णो महात्मनोः । तस्मिंस्तेजोमयौ विप्रौ सम्भूतावृषिसत्तमौ ।। ७.५७.
पूर्वं समभवत्तत्र ह्यगस्त्यो भगवानृषिः । नाहं सुतस्तवेत्युक्त्वा मित्रं तस्मादपाक्रमत् ।। ७.५७.
तद्धि तेजस्तु मित्रस्य उर्वस्याः पूर्वमाहितम् । तस्मिन्समभवत्कुम्भे तत्तेजो यत्र वारुणम् ।। ७.५७.
कस्यचित्त्वथ कालस्य मित्रावरुणसम्भवः । वसिष्ठस्तेजसा युक्तो जज्ञे इक्ष्वाकुदैवतम् ।। ७.५७.
तमिक्ष्वाकुर्महातेजा जातमात्रमनिन्दितम् । वव्रे पुरोधसं सौम्य वंशस्यास्य भवाय नः ।। ७.५७.
एवं त्वपूर्वदेहस्य वसिष्ठस्य महात्मनः । कथितो निर्गमः सौम्य निमेः शृणु यथा ऽभवत् ।। ७.५७.
दृष्ट्वा विदेहं राजानमृषयः सर्व एव ते । तं च ते योजयामासुर्यागदीक्षां मनीषिणः ।। ७.५७.
तं च देहं नरेन्द्रस्य रक्षन्ति स्म द्विजोत्तमाः । गन्धैर्माल्यैश्च वस्त्रैश्च पौरभृत्यसमन्विताः ।। ७.५७.
ततो यज्ञे समाप्ते तु भृगुस्तत्रेदमब्रवीत् । आनयिष्यामि ते चेतस्तुष्टो ऽस्मि तव पार्थिव ।। ७.५७.
सुप्रीताश्च सुराः सर्वे निमेश्चेतस्तथाब्रुवन् । वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् ।। ७.५७.
एवमुक्तः सुरैः सर्वैर्निमेश्चेतस्तदाब्रवीत् । नेत्रेषु सर्वभूतानां वसेयं सुरसत्तमाः ।। ७.५७.