तामिमां मद्गतिं वीर हन्तुं नार्हसि राघव। मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया। जहि ताञ्छरमुख्येन मा भूत् कालस्य पर्ययः
अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्। धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप
एते सुरगणाः सर्वे निरीक्षन्ते समागताः। त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति। त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत। शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्। रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्
स हतान् दृश्य रामेण स्वाँल्लोकांस्तपसार्जितान्। जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम्
ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा। सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्
रामं दाशरथिं रामो जामदग्न्यः प्रपूजितः। ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः
thumb|सप्तसप्ततितमः सर्गः श्रूयताम्|center श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः। वरुणायाप्रमेयाय ददौ हस्ते महायशाः
अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्। पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः
जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी। अयोध्याभिमुखी सेना त्वया नाथेन पालिता
रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्। बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम्
गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः। पुनर्जातं तदा मेने पुत्रमात्मानमेव च
चोदयामास तां सेनां जगामाशु ततः पुरीम्। पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्
सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्। राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः
सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्। पौरैः प्रत्युद्गतो दूरं द्विजैश्च पुरवासिभिः
पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः। प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम्
ननन्द स्वजनै राजा गृहे कामैः सुपूजितः। कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा
वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः। ततः सीतां महाभागामूर्मिलां च यशस्विनीम्
कुशध्वजसुते चोभे जगृहुर्नृपयोषितः। मंगलालापनैर्होमैः शोभिताः क्षौमवाससः
देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्। अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा
रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः। कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः
शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः। कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्
भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः। अयं केकयराजस्य पुत्रो वसति पुत्रक
त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव। श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा। आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ। युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः