तस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् । यजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ।। ७.५५.
ततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् । वसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ।। ७.५५.
अनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः । अत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ।। ७.५५.
तमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् । वृतो ऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ।। ७.५५.
अनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् । वसिष्ठो ऽपि महातेजा इन्द्रयज्ञमथाकरोत् ।। ७.५५.
निमिस्तु राजा विप्रांस्तान्समानीय नराधिपः । अयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः । पञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ।। ७.५५.
इन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः । सकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ।। ७.५५.
तदन्तरमथापश्यद्गौतमेनाभिपूरितम् । कोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ।। ७.५५.
स राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् । तस्मिन्नहनि राजर्षिर्निद्रया ऽपहृतो भृशम् ।। ७.५५.
ततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः । अदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ।। ७.५५.
यस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव । चेतनेन विनाभूतो देहस्तव भविष्यति ।। ७.५५.
ततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् । ब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ।। ७.५५.
अजानतः शयानस्य क्रोधेन कलुषीकृतः । मुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ।। ७.५५.
तस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः । देहः सुरुचिरप्रख्यो भविष्यति न संशयः ।। ७.५५.
इति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ । सहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ।। ७.५५.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चपञ्चाशः सर्गः
रामस्य भाषितं श्रुत्वा लक्ष्मणः परवीरहा । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५६.
निक्षिप्तदेहौ काकुत्स्य कथं तौ द्विजपार्थिवौ । पुनर्देहेन संयोगं जग्मतुर्देवसम्मतौ ।। ७.५६.
लक्ष्मणेनैवमुक्तस्तु रामश्चेक्ष्वाकुनन्दनः । प्रत्युवाच महातेजा लक्ष्मणं पुरुषर्षभः ।। ७.५६.
तौ परस्परशापेन देहावुत्सृज्य धार्मिकौ । अभूतां नृपविप्रर्षी वायुभूतौ तपोधनौ ।। ७.५६.
अशरीरः शरीरस्य कृते ऽन्यस्य महामुनिः । वसिष्ठः सुमहातेजा जगाम पितुरन्तिकम् ।। ७.५६.
सो ऽभिवाद्य ततः पादौ देवदेवस्य धर्मवित् । पितामहमथोवाच वायुभूत इदं वचः ।। ७.५६.
भगवन्निमिशापेन विदेहत्वमुपागमम् । लोकनाथ महादेव अण्डजो ऽपि त्वमब्जजः ।। ७.५६.
सर्वेषां देहहीनानां महद्दुःखं भविष्यति । लुप्यन्ते सर्वकार्यणि हीनदेहस्य वै प्रभो । देहस्यान्यस्य सद्भावे प्रसादं कर्तुमर्हसि ।। ७.५६.
तमुवाच ततो ब्रह्मा स्वयम्भूरमितप्रभः । मित्रावरुणजं तेज प्रविश त्वं महायशः ।। ७.५६.
अयोनिजस्त्वं भविता तत्रापि द्विजसत्तम । धर्मेण महता युक्तः पुनरेष्यसि मे वशम् ।। ७.५६.
एवमुक्तस्तु देवेन चाभिवाद्य प्रदक्षिणम् । कृत्वा पितामहं तूर्णं प्रययौ वरुणालयम् ।। ७.५६.
तमेव कालं मित्रो ऽपि वरुणत्वमकारयत् । क्षीरोदेन सहोपेतः पूज्यमानः सुरोत्तमैः ।। ७.५६.
एतस्मिन्नेव काले तु उर्वशी परमाप्सराः । यदृच्छया तमुद्देशमाययौ सखिभिर्वृता ।। ७.५६.
तां दृष्ट्वा रूपसम्पन्नां क्रीडन्तीं वरुणालये । आविशत्परमो हर्षो वरुणं चोर्वशीकृते ।। ७.५६.