यो ऽपि पालयते विप्रः सो ऽपि गामन्वगाद्द्रुतम् । गत्वा तमृषिमाचष्ट मम गौरिति सत्वरम् ।। ७.५३.
स्पर्शिता राजसिंहेन मम दत्ता नृगेण ह । तयोर्ब्राह्मणयोर्वादो महानासीद्विपश्चितोः ।। ७.५३.
विवदन्तौ ततो ऽन्योन्यं दातारमभिजग्मतुः । तौ राजभवनद्वारि न प्राप्तौ नृगशासनम् ।। ७.५३.
अहोरात्राण्यनेकानि वसन्तौ क्रोधमीयतुः । ऊचतुश्च महात्मानौ तावुभौ द्विजसत्तमौ ७.५३.
अर्थिनां कार्यसिद्ध्यर्थं यस्मात्त्वं नैषि दर्शनम् । अदृश्यः सर्वभूतानां कृकलासो भविष्यसि ।। ७.५३.
बहुवर्षसहस्राणि बहुवर्षशतानि च । श्वभ्रे ऽस्मिन् कृकलासो वै दीर्घकालं वसिष्यसि ।। ७.५३.
उत्पत्स्यते हि लोके ऽस्मिन्यदूनां कीर्तिवर्धनः । वासुदेव इति ख्यातो विष्णुः पुरुषविग्रहः ।। ७.५३.
स ते मोक्षयिता राजंस्तस्माच्छापाद्भविष्यसि । कृता च तेन कालेन निष्कृतिस्ते भविष्यति ।। ७.५३.
भारावतरणार्थं हि नरनारायणावुभौ । उत्पत्स्येते महावीर्यौ कलौ युग उपस्थिते ।। ७.५३.
एवं तौ शापमुत्सृज्य ब्राह्मणौ विगतज्वरौ । तां गां हि दुर्बलां वृद्धां ददतुर्ब्राह्मणाय वै ।। ७.५३.
एवं स राजा तं शापमुपभुङ्क्ते सुदारुणम् ।। ७.५३.
कार्यार्थिनां विमर्दो हि राज्ञां दोषाय कल्पते । तच्छीघ्रं दर्शनं मह्यमभिवर्तन्तु कार्यिणः ।। ७.५३.
सुकृतस्य हि कार्यस्य फलं नापैति पार्थिवः । तस्माद्गच्छ प्रतीक्षस्व सौमित्रे कार्यवाञ्जनः ।। ७.५३.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे त्रिपञ्चाशः सर्गः
रामस्य भाषितं श्रुत्वा लक्ष्मणः परमार्थवित् । उवाच प्राञ्जलिर्वाक्यं राघवं दीप्ततेजसम् ।। ७.५४.
अल्पापराधे काकुत्स्थ द्विजाभ्यां शाप ईदृशः । महान्नृगस्य राजर्षेर्यमदण्ड इवापरः ।। ७.५४.
श्रुत्वा तु पापसंयुक्तमात्मानं पुरषर्षभ । किमुवाच नृगो राजा द्विजौ क्रोधसमन्वितौ ।। ७.५४.
लक्ष्मणेनैवमुक्तस्तु राघवः पुनरब्रवीत् । शृणु सौम्य यथा पूर्वं स राजा शापविक्षतः ।। ७.५४.
अथाध्वनि गतौ विप्रौ विज्ञाय स नृगस्तदा । आहूय मन्त्रिणः सर्वान्नैगमान्सपुरोधसः ।। ७.५४.
तानुवाच नृगो राजा सर्वाश्च प्रकृतीस्तथा । दुःखेन सुसमाविष्टः श्रूयतां मे समाहितैः ।। ७.५४.
नारदः पर्वतश्चैव मम दत्त्वा महद्भयम् । गतौ त्रिभुवनं भद्रौ वायुभूतावनिन्दितौ ।। ७.५४.
कुमारो ऽयं वसुर्नाम स देवो ऽद्याभिषिच्यताम् । श्वभ्रं च यत्सुखस्पर्शं क्रियतां शिल्पिभिर्मम । यत्राहं सङ्क्षयिष्यामि शापं ब्राह्मणनिःसृतम् ।। ७.५४.
वर्षघ्नमेकं श्वभ्रं तु हिमघ्नमपरं तथा । ग्रीष्मघ्नं तु सुखस्पर्शमेकं कुर्वन्तु शिल्पिनः ।। ७.५४.
फलवन्तश्च ये वृक्षाः पुष्पवत्यश्च या लताः । विरोप्यन्तां बहुविधाश्छायावन्तश्च गुल्मिनः ।। ७.५४.
क्रियतां रमणीयं च श्वभ्राणां सर्वतोदिशम् । सुखमत्र वसिष्यामि यावत्कालस्य पर्ययः ।। ७.५४.
पुष्पाणि च सुगन्धीनि क्रियतां तेषु नित्यशः । परिवार्य यथा मे स्युरध्यर्धं योजनं तथा ।। ७.५४.
एवं कृत्वा विधानं स सन्दिदेश वसं तदा । धर्मनित्यः प्रजाः पुत्र क्षत्रधर्मेण पालय ।। ७.५४.
प्रत्यक्षं ते यथा शापो द्विजाभ्यां मयि पातितः । नरश्रेष्ठ सरोषाभ्यामपराधे ऽपि तादृशे ।। ७.५४.
मा कृथास्तनुसन्तापं मत्कृते ऽपि नरर्षभ । कृतान्तः कुशलः पुत्र येनास्मि व्यसनीकृतः ।। ७.५४.
प्राप्तव्यान्येव प्राप्नोति गन्तव्यान्येव गच्छति । लब्धव्यान्येव लभते दुःखानि च सुखानि च ।। ७.५४.