तौ मुनी तापसश्रेष्ठौ विनीतो ह्यभिवादयत् । स ताभ्यां पूजितो राजा स्वागतेनासनेन च ७.५१.
तेषां तत्रोपविष्टानां तास्ताः सुमधुराः कथाः । बभूवुः परमर्षीणां मध्यादित्यगते ऽहनि ।। ७.५१.
ततः कथायां कस्याञ्चित्प्राञ्जलिः प्रग्रहो नृपः । उवाच तं महात्मानमत्रेः पुत्रं तपोधनम् ।। ७.५१.
भगवन्किं प्रमाणेन मम वंशो भविष्यति । किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः ।। ७.५१.
रामस्य च सुता ये स्युस्तेषामायुः कियद्भवेत् । काम्यया भगवन्बूहि वंशस्यास्य गतिं मम ।। ७.५१.
तच्छ्रुत्वा व्याहृतं वाक्यं राज्ञो दशरथस्य च । दुर्वासाः सुमहातेजा व्याहर्तुमुपचक्रमे ।। ७.५१.
शृणु राजन्पुरावृत्तं तदा देवासुरे युधि । दैत्याः सुरैर्भर्त्स्यमाना भृगुपत्नीं समाश्रिताः ।। ७.५१.
तया दत्ताभयास्तत्र न्यवसन्नभयास्तदा ।। ७.५१.
तया परिगृहीतांस्तान्दृष्ट्वा क्रुद्धः सुरेश्वरः । चक्रेण शितधारेण भृगुपत्न्याः शिरो ऽहरत् ।। ७.५१.
ततस्तां निहतां दृष्ट्वा पत्नीं भृगुकुलोद्वहः । शशाप सहसा क्रुद्धो विष्णुं रिपुकुलार्दनम् ।। ७.५१.
यस्मादवध्यां मे पत्नीमवधीः क्रोधमूर्च्छितः । तस्मात्त्वं मानुषे लोके जनिष्यसि जनार्दन ।। ७.५१.
तत्र पत्नीवियोगं त्वं प्राप्स्यसे बहुवार्षिकम् ।। ७.५१.
शापाभिहतचेतास्स स्वात्मना भावितो ऽभवत् ।। ७.५१.
अर्चयामास तं देवं भृगुः शापेन पीडितः । तपसाराधितो देवो ह्यब्रवीद्भक्तवत्सलः । लोकानां संहितार्थं तु तं शापं ग्राह्यमुक्तवान् ।। ७.५१.
इति शप्तो महातेजा भृगुणा पूर्वजन्मनि । इहागतो हि पुत्रत्वं तव पार्थिवसत्तम ।। ७.५१.
राम इत्यभिविख्यातस्त्रिषु लोकेषु मानद । तत्फलं प्राप्स्यते चापि भृगुशापकृतं महत् ।। ७.५१.
अयोध्यायाः पती रामो दीर्घकालं भविष्यति । सुखिनश्च समृद्धाश्च भविष्यन्त्यस्य ये ऽनुगाः ।। ७.५१.
दश वर्षसहस्राणि दश वर्षशतानि च । रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति ।। ७.५१.
समृद्धैश्चाश्वमेधैश्च इष्ट्वा परमदुर्जयः । राजवंशांश्च बहुशो बहून्संस्थापयिष्यति ।। ७.५१.
द्वौ पुत्रौ तु भविष्येते सीतायां राघवस्य तु । अन्यत्र न त्वयोध्यायां सत्यमेतन्नसंशयः ।। ७.५१.
सीतायाश्च ततः पुत्रावभिषेक्ष्यति राघवः ।। ७.५१.
स सर्वमखिलं राज्ञो वंशस्याह गतागतम् । आख्याय सुमहातेजास्तूष्णीमासीन्महामुनिः ।। ७.५१.
तूष्णीम्भूते तदा तस्मिन्राजा दशरथो मुनौ । अभिवाद्य महात्मानौ पुनरायात्पुरोत्तमम् ।। ७.५१.
एतद्वचो मया तत्र मुनिना व्याहृतं पुरा । श्रुतं हृदि च निक्षिप्तं नान्यथा तद्भविष्यति ।। ७.५१.
एवं गते न सन्तापं कर्तुमर्हसि राघव । सीतार्थे राघवार्थे वा दृढो भव नरोत्तम ।। ७.५१.
श्रुत्वा तु व्याहृतं वाक्यं सूतस्य परमाद्भुतम् । प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ।। ७.५१.
ततः संवदतोरेवं सूतलक्ष्मणयोः पथि । अस्तमर्के गते वासं केशिन्यां तावथोषतुः ।। ७.५१.
तत्र तां रजनीमुष्य केशिन्यां रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा ।। ७.५२.
ततो ऽर्धदिवसे प्राप्ते प्रविवेश महारथः । अयोध्यां रत्नसम्पूर्णां हृष्टपुष्टजनावृताम् ।। ७.५२.
सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ।। ७.५२.