प्राणैरपि प्रियं तस्माद्भर्तुः कार्यं विशेषतः । इति मद्वचनाद्रामो वक्तव्यो मम सङ्ग्रहः । निरीक्ष्य मा ऽद्य गच्छ त्वमृतुकालातिवर्तिनीम् ।। ७.४८.
एवं ब्रुवन्त्यां सीतायां लक्ष्मणो दीनचेतनः । शिरसा ऽ ऽवन्द्य धरणीं व्याहर्तुं न शशाक ह ।। ७.४८.
प्रदक्षिणं च तां कृत्वा रुदन्नेव महास्वनः । ध्यात्वा मुहूर्तं तामाह किं मां वक्ष्यसि शोभने ।। ७.४८.
दृष्टपूर्वं न ते रूपं पादौ दृष्टौ तवानघे । कथमत्र हि पश्यामि रामेण रहितां वने ।। ७.४८.
इत्युक्त्वा तां नमस्कृत्य पुनर्नावमुपारुहत् । आरुह्य च पुनर्नावं नाविकं चाभ्यचोदयत् ।। ७.४८.
स गत्वा चोत्तरं तीरं शोकभारसमन्वितः । सम्मूढ इव दुःखेन रथमध्यारुहद्द्रुतम् ।। ७.४८.
मुहुर्मुहुः परावृत्य दृष्ट्वा सीतामनाथवत् । चेष्टन्तीं परतीरस्थां लक्ष्मणः प्रययावथ ।। ७.४८.
दूरस्थं रथमालोक्य लक्ष्मणं च मुहूर्मुहुः । निरीक्षमाणां तूद्विग्नां सीतां शोकः समाविशत् ।। ७.४८.
सा दुःखभारावनता यशस्विनी यशोधना नाथमपश्यती सती । रुरोद सा बर्हिणनादिते वने महास्वनं दुःखपरायणा सती ।। ७.४८.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे ऽष्टचत्वारिंशः सर्गः
सीतां तु रुदतीं दृष्ट्वा ते तत्र मुनिदारकाः । प्राद्रवन्यत्र भगवानास्ते वाल्मीकिरुग्रधीः ।। ७.४९.
अभिवाद्य मुनेः पादौ मुनिपुत्रा महर्षये । सर्वं निवेदयामासुस्तस्यास्तु रुदितस्वनम् ।। ७.४९.
अदृष्टपूर्वा भगवन्कस्याप्येषा महात्मनः । पत्नी श्रीरिव सम्मोहाद्विरौति विकृतानना ।। ७.४९.
भगवन्साधु पश्य त्वं देवतामिव खाच्च्युताम् । नद्यास्तु तीरे भगवन्वरस्त्री कापि दुःखिता ।। ७.४९.
दृष्टास्माभिः प्ररुदिता दृढं शोकपरायणा । अनर्हा दुःखशोकाभ्यामेकां दीनां ह्यनाथवत् ।। ७.४९.
न ह्येनां मानुषीं विद्मः सत्क्रिया ऽस्याः प्रयुज्यताम् । आश्रमस्याविदूरे च त्वामियं शरणं गता ।। ७.४९.
त्रातारमिच्छते साध्वी भगवंस्त्रातुमर्हसि । तेषां तु वचनं श्रुत्वा बुद्ध्या निश्चित्य धर्मवित् । तपसा लब्धचक्षुष्मान् प्राद्रवद्यत्र मैथिली ।। ७.४९.
तं प्रयान्तमभिप्रेत्य शिष्या ह्येनं महामतिम् । तं तु देशमभि प्रेत्य किञ्चित्पद्भ्यां महामतिः ।। ७.४९.
अर्घ्यमादाय रुचिरं जाह्नवीतीरमागमत् । ददर्श राघवस्येष्टां सीतां पत्नीमनाथवत् ।। ७.४९.
तां सीतां शोकभारार्तां वाल्मीकिर्मुनिपुङ्गवः । उवाच मधुरां वाणीं ह्लादयन्निव तेजसा ।। ७.४९.
स्नुषा दशरथस्य त्वं रामस्य महिषी प्रिया । जनकस्य सुता राज्ञः स्वागतं ते पतिव्रते ।। ७.४९.
आयान्ती चासि विज्ञाता मया धर्मसमाधिना । कारणं चैव सर्वं मे हृदयेनोपलक्षितम् ।। ७.४९.
तव चैव महाभागे विदितं मम तत्त्वतः । सर्वं च विदितं मह्यं त्रैलोक्ये यद्धि वर्तते ।। ७.४९.
अपापां वेद्मि सीते त्वां तपोलब्धेन चक्षुषा । विस्रब्धा भव वैदेहि साम्प्रतं मयि वर्तसे ।। ७.४९.
आश्रमस्याविदूरे मे तापस्यस्तपसि स्थिताः । तास्त्वां वत्से यथा वत्सं पालयिष्यन्ति नित्यशः ।। ७.४९.
इदमर्ध्यं प्रतीच्छ त्वं विस्रब्धा विगतज्वरा । यथा स्वगृहमभ्येत्य विषादं चैव मा कृथाः ।। ७.४९.
श्रुत्वा तु भाषितं सीता मुनेः परममद्भुतम् । शिरसा ऽ ऽवन्द्य चरणौ तथेत्याह कृताञ्जलिः ।। ७.४९.
तं प्रयान्तं मुनिं सीता प्राञ्जलिः पृष्ठतो ऽन्वगात् ।। ७.४९.
तं दृष्ट्वा मुनिमायान्तं वैदेह्या मुनिपत्नयः । उपाजग्मुर्मुदा युक्ता वचनं चेदमब्रुवन् ।। ७.४९.
स्वागतं ते मुनिश्रेष्ठ चिरस्यागमनं च ते । अभिवादयामस्त्वां सर्वा उच्यतां कि च कुर्महे ।। ७.४९.