तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाह्वयामास लक्ष्मणः परवीरहा ।। ७.४६.
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ।। ७.४६.
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् । गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ।। ७.४६.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।। ७.४७.
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ।। ७.४७.
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ।। ७.४७.
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता । अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ।। ७.४७.
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् । न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ।। ७.४७.
प्रसीद च न मे पापं कर्तुमर्हसि शोभने । इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ।। ७.४७.
रुदन्तं प्राञ्जलिं दृष्ट्वा काङ्क्षन्तं मृत्युमात्मनः । मैथिली भृशसंविग्ना लक्ष्मणं वाक्यमब्रवीत् ।। ७.४७.
किमिदं नावगच्छामि ब्रूहि तत्त्वेन लक्ष्मण । पश्यामि त्वां न च स्वस्थमपि क्षेमं महीपतेः ।। ७.४७.
शापितो ऽसि नरेन्द्रेण यत्त्वं सन्तापमागतः । तद्ब्रूयाः सन्निधौ मह्यमहमाज्ञापयामि ते ।। ७.४७.
वैदेह्या चोद्यमानस्तु लक्ष्मणो दीनचेतनः । अवाङ्मुखो बाष्पकलं वाक्यमेतदुवाच ह ।। ७.४७.
श्रुत्वा परिषदो मध्ये ह्यपवादं सुदारुणम् । पुरे जनपदे चैव त्वत्कृते जनकात्मजे । रामः सन्तप्तहृदयो मा निवेद्य गृहं गतः ।। ७.४७.
न तानि वचनीयानि मया देवि तवाग्रतः । यानि राज्ञा हृदि न्यस्तान्यमर्षात्पृष्ठतः कृतः ।। ७.४७.
सा त्वं त्यक्ता नृपतिना निर्दोषा मम सन्निधौ । पौरापवादभीतेन ग्राह्यं देवि न ते ऽन्यथा ।। ७.४७.
आश्रमान्तेषु च मया त्यक्तव्या त्वं भविष्यसि । राज्ञः शासनमाज्ञाय तवेदं किल दौर्हृदम् ।। ७.४७.
तदेतज्जाह्नवीतीरे ब्रह्मर्षीणां तपोवनम् । पुण्यं च रमणीयं च मा विषादं कृथाः शुभे ।। ७.४७.
राज्ञो दशरथस्येष्टः पितुर्मे मुनिपुङ्गवः । सखा परमको विप्रो वाल्मीकिः सुमहायशाः ।। ७.४७.
पादच्छायामुपागम्य सुखमस्य महात्मनः । उपवासपरैकाग्रा वस त्वं जनकात्मजे ।। ७.४७.
पतिव्रतात्वमास्थाय रामं कृत्वा सदा हृदि । श्रेयस्ते परमं देवि तथा कृत्वा भविष्यति ।। ७.४७.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे सप्तचत्वारिंशः सर्गः
लक्ष्मणस्य वचः श्रुत्वा दारुणं जनकात्मजा । परं विषादमागम्य वैदेही निपपात ह ।। ७.४८.
सा मुहूर्तमिवासञ्ज्ञा बाष्पपर्याकुलेक्षणा । लक्ष्मणं दीनया वाचा उवाच जनकात्मजा ।। ७.४८.
मामिकेयं तनुर्नूनं सृष्टा दुःखाय लक्ष्मण । धात्रा यस्यास्तथा मे ऽद्य दुःखमूर्तिः प्रदृश्यते ।। ७.४८.
किं नु पापं कृतं पूर्वं को वा दारैर्वियोजितः । या ऽहं शुद्धसमाचारा त्यक्ता नृपतिना सती ।। ७.४८.
पुरा ऽहमाश्रमे वासं रामपादानुवर्तिनी । अनुरुध्यापि सौमित्रे दुःखे च परिवर्तिनी ।। ७.४८.
सा कथं ह्याश्रमे सौम्य वत्स्यामि विजनीकृता । आख्यास्यामि च कस्याहं दुःखं दुःखपरायणा ।। ७.४८.
किं नु वक्ष्यामि मुनिषु कर्म वा सत्कृतं च किम् । कस्मिंश्चित् कारणे त्यक्ता राघवेण महात्मना ।। ७.४८.