सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् । प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ।। ७.४६.
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् । अशुभानि बहून्येव पश्यामि रघुनन्दन ।। ७.४६.
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते । हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ।। ७.४६.
औत्सुक्यं परमं चापि अधृतिश्च परा मम । शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ।। ७.४६.
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल । श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ।। ७.४६.
पुरे जनपदे चैव कुशलं प्राणिनामपि । इत्यञ्जलिकृता सीता देवता अभ्ययाचत ।। ७.४६.
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ।। ७.४६.
ततो वासमुपागम्य गोमतीतीर आश्रमे । प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ।। ७.४६.
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ।। ७.४६.
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् । आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। ७.४६.
सा तु सूतस्य वचनादारुरोह रथोत्तमम् । सीता सौमित्रिणा सार्धं सुमन्त्रेण च धीमता ।। ७.४६.
आससाद विशालाक्षी गङ्गां पापविनाशिनीम् । अथार्धदिवसं गत्वा भागीरथ्या जलाशयम् ।। ७.४६.
निरीक्ष्य लक्ष्मणो दीनः प्ररुरोद महास्वनः ।। ७.४६.
सीता तु परमायत्ता दृष्ट्वा लक्ष्मणमातुरम् । उवाच वाक्यं धर्मज्ञा किमिदं रुद्यते त्वया ।। ७.४६.
जाह्नवीतीरमासाद्य चिराभिलषितं मम । हर्षकाले किमर्थं मां विषादयसि लक्ष्मण ।। ७.४६.
नित्यं त्वं रामपार्श्वेषु वर्तसे पुरुषर्षभ । कच्चिद्विनाकृतस्तेन द्विरात्रं शोकमागतः ।। ७.४६.
ममापि दयितो रामो जीवितादपि लक्ष्मण । न चाहमेवं शोचामि मैवं त्वं बालिशो भव ।। ७.४६.
तारयस्व च मां गङ्गां दर्शयस्व च तापसान् । ततो मुनिभ्यो दास्यामि वांसास्याभरणानि च ।। ७.४६.
ततः कृत्वा महर्षीणां यथार्हमभिवादनम् । तत्र चैकां निशामुष्य यास्यामस्तां पुरीं पुनः ।। ७.४६.
ममापि पद्मपत्राक्षं सिंहोरस्कं कृशोदरम् । त्वरते हि मनो द्रष्टुं रामं रमयतां वरम् ।। ७.४६.
तस्यास्तद्वचनं श्रुत्वा प्रमृज्य नयने शुभे । नाविकानाह्वयामास लक्ष्मणः परवीरहा ।। ७.४६.
इयं च सज्जा नौश्चेति दाशाः प्राञ्जलयो ऽब्रुवन् ।। ७.४६.
तितीर्षुर्लक्ष्मणो गङ्गां शुभां नावमुपारुहत् । गङ्गां सन्तारयामास लक्ष्मणस्तां समाहितः ।। ७.४६.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे षट्चत्वारिंशः सर्गः
अथ नावं सुविस्तीर्णां नैषादीं राघवानुजः । आरुरोह समायुक्तां पूर्वमारोप्य मैथिलीम् ।। ७.४७.
सुमन्त्रं चैव सरथं स्थीयतामिति लक्ष्मणः । उवाच शोकसन्तप्तः प्रयाहीति च नाविकम् ।। ७.४७.
ततस्तीरमुपागम्य भागीरथ्याः स लक्ष्मणः । उवाच मैथिलीं वाक्यं प्राञ्जलिर्बाष्पसम्प्लुतः ।। ७.४७.
हृद्गतं मे महच्छल्यं यस्मादार्येण धीमता । अस्मिन्निमित्ते वैदेहि लोकस्य वचनीकृतः ।। ७.४७.
श्रेयो हि मरणं मे ऽद्य मृत्युर्वा यत्परं भवेत् । न चास्मिन्नीदृशे कार्ये नियोज्यो लोकनिन्दिते ।। ७.४७.
प्रसीद च न मे पापं कर्तुमर्हसि शोभने । इत्यञ्जलिकृतो भूमौ निपपात स लक्ष्मणः ।। ७.४७.