तत्रैनां विजने देशे विसृज्य रघुनन्दन । शीघ्रमागच्छ भद्रं ते कुरुष्व वचनं मम ।। ७.४५.
न चास्मिन् प्रतिवक्तव्यः सीतां प्रति कथञ्चन । तस्मात्त्वं गच्छ सौमित्रे नात्र कार्या विचारणा ।। ७.४५.
अप्रीतिर्हि परा मह्यं त्वयेतत्प्रतिवारिते । शापिता हि मया यूयं भुजाभ्यां जीवितेन च ।। ७.४५.
ये मां वाक्यान्तरे ब्रूयुरनुनेतुं कथञ्चन । अहिता नाम ते नित्यं मदभीष्टविघातनात् ।। ७.४५.
मानयन्तु भवन्तो मां यदि मच्छासने स्थिताः । इतो ऽद्य नीयतां सीता कुरुष्व वचनं मम ।। ७.४५.
पूर्वमुक्तो ऽहमनया गङ्गातीरे ऽहमाश्रमान् । पश्येयमिति तस्याश्च कामः संवर्त्यतामयम् ।। ७.४५.
एवमुक्त्वा तु काकुत्स्थो बाष्पेण पिहिताननः । प्रविवेश स धर्मात्मा भ्रातृभिः परिवारितः ।। ७.४५.
शोकसंलग्नहृदयो निशश्वास यथा द्विपः ।। ७.४५.
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदुत्तरकाण्डे पञ्चचत्वारिंशः सर्गः
ततो रजन्यां व्युष्टायां लक्ष्मणो दीनचेतनः । सुमन्त्रमब्रवीद्वाक्यं मुखेन परिशुष्यता ।। ७.४६.
सारथे तुरगाञ्छीघ्रं योजयस्व रथोत्तमे । स्वास्तीर्णं राजभवनात्सीतायाश्चासनं कुरु ।। ७.४६.
सीता हि राजवचनादाश्रमं पुण्यकर्मणाम् । मया नेया महर्षीणां श्रीघ्रमानीयतां रथः ।। ७.४६.
सुमन्त्रस्तु तथेत्युक्त्वा युक्तं परमवाजिभिः । रथं सुरुचिरप्रख्यं स्वास्तीर्णं सुखशय्यया ।। ७.४६.
आनीयोवाच सौमित्रिं मित्राणां मानवर्धनम् । रथो ऽयं समनुप्राप्तो यत्कार्यं क्रियतां प्रभो ।। ७.४६.
एवमुक्तः सुमन्त्रेण राजवेश्मनि लक्ष्मणः । प्रविश्य सीतामासाद्य व्याजहार नरर्षभः ।। ७.४६.
त्वया किलैष नृपतिर्वरं वै याचितः प्रभुः । नृपेण च प्रतिज्ञातमाज्ञप्तश्चाश्रमं प्रति ।। ७.४६.
गङ्गीतीरे मया देवि ऋषीणामाश्रमाञ्छुभान् । शीघ्रं गत्वा तु वैदेहि शासनात्पार्थिवस्य नः । अरण्ये मुनिभिर्जुष्टे अपनेया भविष्यसि ।। ७.४६.
एवमुक्ता तु वैदेही लक्ष्मणेन महात्मना । प्रहर्षमतुलं लेभे गमनं चाप्यरोचयत् ।। ७.४६.
वासांसि च महार्हाणि रत्नानि विविधानि च । गृहीत्वा तानि वैदेही गमनायोपचक्रमे ।। ७.४६.
इमानि मुनिपत्नीनां दास्याम्याभरणान्हम् । वस्त्राणि च महार्हाणि धनानि विविधानि च ।। ७.४६.
सौमित्रिस्तु तथेत्युक्त्वा रथमारोप्य मैथिलीम् । प्रययौ शीघ्रतुरगै रामस्याज्ञामनुस्मरन् ।। ७.४६.
अब्रवीच्च तदा सीता लक्ष्मणं लक्ष्मिवर्धनम् । अशुभानि बहून्येव पश्यामि रघुनन्दन ।। ७.४६.
नयनं मे स्फुरत्यद्य गात्रोत्कम्पश्च जायते । हृदयं चैव सौमित्रे अस्वस्थमिव लक्षये ।। ७.४६.
औत्सुक्यं परमं चापि अधृतिश्च परा मम । शून्यामेव च पश्यामि पृथिवीं पृथुलोचन ।। ७.४६.
अपि स्वस्ति भवेत्तस्य भ्रातुस्ते भ्रातृवत्सल । श्वश्रूणां चैव मे वीर सर्वासामविशेषतः ।। ७.४६.
पुरे जनपदे चैव कुशलं प्राणिनामपि । इत्यञ्जलिकृता सीता देवता अभ्ययाचत ।। ७.४६.
लक्ष्मणो ऽर्थं ततः श्रुत्वा शिरसा वन्द्य मैथिलीम् । शिवमित्यब्रवीद्धृष्टो हृदयेन विशुष्यता ।। ७.४६.
ततो वासमुपागम्य गोमतीतीर आश्रमे । प्रभाते पुनरुत्थाय सौमित्रिः सूतमब्रवीत् ।। ७.४६.
योजयस्व रथं शीघ्रमद्य भागीरथीजलम् । शिरसा धारयिष्यामि त्र्यम्बकः पर्वते यथा ।। ७.४६.
सो ऽश्वान् रज्वाथ चतुरो रथे युङ्क्त्वा मनोजवान् । आरोहस्वेति वैदेहीं सूतः प्राञ्जलिरब्रवीत् ।। ७.४६.